________________
२०८
तर्कतरङ्गिणी ऽव्याप्तिः। एतत्संयोगत्वस्यापि गुणत्वव्याप्यत्वात् । अत उक्तं गुणत्वसाक्षात्पदम् ।
अथ संयोगजसंयोगव्युत्पादने टीका हस्तेति -'संयोगजसंयोगस्तु कारणाकारणसंयोगात् कार्याकार्यसंयोग उत्पद्यते । यथा 'हस्तः कायस्य समवायिकारणं भवति । कायावयवात् । हस्तस्य कायस्याकारणं भवति वृक्षः । तत्संयोगेन हस्तेन समं यो वृक्षसंयोगस्तेन कायतस्संयोगो जन्यते । अथ कार्याकार्यसंयोगो यथा हस्तस्य कार्यं भवति शरीरम्, अकार्यं भवति वृक्षः, तथा च तयोर्यः संयोगः स कारणाकारणसंयोगेन हस्ततरुसंयोगः जन्यते इत्यर्थः ।
ननु संयोगजसंयोगे किं प्रमाणमिति चेत्, न । प्रतीतिरूपं प्रत्यक्षमेव । यदा हस्ततरुसंयोगो जातस्तदापि यथा वृक्षः हस्तसंयोगी[ति]प्रतीतिर्जायते तथा वृक्षः चैत्रकायसंयोगी इति प्रतीत्युदयात् ।
कर्मसंयोगस्थले किञ्चिल्लिख्यते । ननु संयोगकर्मजत्वं न सम्भवत्येव, तत्र व्याप्तेरभावाद्व्यभिचारः, यथा घटक्रियया यत्र घटकाशसंयोगो वृत्तः, स भवति कार्यः, तथा च घटकाशसंयोगसमानाधिकरणात्यन्ताभावप्रतियोगिकतानवच्छेदकत्वं घटक्रियात्वे नास्ति, कथं घटकाशसंयोगाधिकरणेऽऽकाशे घटक्रियाया अत्यन्ताभावोऽस्ति, तथा च क्रियानधिकरणेऽपि पदार्थे संयोगस्योत्पाद्यमानत्वाद् व्यभिचारः, यत्र संयोगः समवायसम्बन्धेन तत्र समवायसम्बन्धेन क्रिया नास्तीति चेत्, न । तादात्म्यसम्बन्धेनैव कार्यकारणभावसमर्थनात् । तथा हि यत्र तादात्म्यसम्बन्धेन घटाकाशसंयोगः, "सः स्वस्मिन् घटाकाशसंयोग एव तिष्ठति, तत्र स्वजन्यतासम्बन्धेन घटक्रिया घटाकाशसंयोगे तिष्ठतीति न व्यभिचारः । अत्र तु सम्बन्धान्तरेण कार्यकारणभावासम्भवेऽनेनैव सम्बन्धेन कर्मसंयोगयोः कार्यकारणभावकल्पनादिति ।
अत्र ‘भवानन्द भट्टाचार्याः चिन्त्यं वदन्ति । यद्यप्यनेनापि सम्बन्धेन व्यभिचारस्थलेऽपि कार्यकारणभावः कल्प्यते, तदा घटं प्रति रासभस्यापि कारणत्वं कल्पयितुं शक्यते । कृष्णदासा:यत्र तादात्म्यसम्बन्धेन घटस्तत्र स्वजन्यतासम्बन्धेनापि रासभस्तत्र तिष्ठति । यथा यत्रान्यसम्बन्धो न सम्भवति तत्रायं सम्बन्धः कल्पनीय इति । यदि कार्यमा प्रति सर्वस्यैव कारणत्वं स्यादिति । यदि चोच्यते व्यभिचारिण्ययं सम्बन्धो न कल्पनीयः, तदा भवन्मतेऽपि कर्मसंयोगयोः कार्यकारणभावोऽयं सम्बन्धो न कल्पनीयः । तस्यापि व्यभिचारित्वादिति चिन्त्यम् ।
अत्र समाधानं यथा-यत्र समवायसम्बन्धेन संयोगः तत्र 'घटक्रियाश्रयवृत्तिसंयोगाधिकरणत्वसम्बन्धेन घटक्रिया नान्यत्र ।
प्रघटः अत्र घटकाशसंयोगः समवायसम्बन्धेन घटेऽऽकाशे च तिष्ठति । तत्रैव घटक्रियाया १. B संयोगसंयोगस्त. २. B हस्तावयवो कायस्य. ३. B हस्ताकायस्य. ४. B यथा. ५. B प्रतीतिरुदयात. ६. B क्रियया. ७. B om its सः. ८. B भावानन्द. ९. B घटाश्रयवृत्ति.. १०. B प्रकाशसंयोगः. ११. A घटक्रिया.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org