________________
तर्कतरङ्गिणी
२०७ तथाप्यनेकवृत्तिवृत्तित्वं नास्तीति नातिव्याप्तिः । गुणत्वमादाय गुणमात्रेऽतिव्याप्तिवारणार्थं व्याप्यपदम् । यद्यप्यनेन गुणत्वमपि गुणत्वव्याप्यं भवत्येव तथापि भेदेनात्रव्याप्यव्यापकभावो विवक्षितः ।
जातिपदं समवायसम्बन्धेन तद्वत्त्वबाधार्थम् । प्रमाणं चात्रेदमस्मादित्यबाधितं प्रत्यक्षमेव गुणत्वसाधकम् । कथम् ? यथा सङ्ख्यात्वं पक्ष: । एकानेकवृत्तिवृत्तिगुणत्वसाक्षाद्व्याप्यजातिसमानाधिकरणात्यन्ताभावप्रतियोगिगुणत्वव्याप्यजातित्वात्, रूपत्ववत् । साध्यार्थो यथा एकस्मिन्नेकस्मिन् च वर्तते यो पदार्थ स्तवृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिः, तत्समानाधिकरणो योऽत्यन्ताभावः तत्प्रतियोगित्वं रूपत्वस्यास्ति । यथा रूपत्वं साध्यं तिष्ठति । तथा हि यथा घटात्पट: पृथगित्यत्र- अथ च 'घटत्पटस्तन्तौ पृथगित्यत्रैकानेकवृत्तिर्गुणः पृथकत्वरूपो जातः । तत्र वर्तते या गुणत्वसाक्षाद्व्याप्या जाति: पृथक्त्वम् । अर्थात् तत्समानाधिकरणो योऽत्यन्ताभावो रूपत्वादीनाम्, तत्प्रतियोगित्वं रूपे तिष्ठतीति-तथा पक्षरूपसङ्ख्यात्वेऽपि तिष्ठति । एकानेकवृत्तिवृत्तिगुणत्वसाक्षाद्व्याप्या जातिर्भवति पृथक्त्वम् । तत्समानाधिकरणोऽत्यन्ता-भावसङ्ख्यात्वस्य । तत्प्रतियोगित्वं सङ्ख्यात्वेऽस्ति । तथा चानेनानुमानेन पक्षधर्मताबलात् पृथक्त्वनिष्ठा पृथक्त्वरूपा जातिस्तिष्ठति । द्वितीयवृत्तिवृत्त्यन्तं पदानुपादाने बाधः । यथा गुणत्वसाक्षाद्व्याप्या जातिर्भवति सङ्ख्यात्वम् । तत्समानाधिकरणात्यन्ताभावप्रतियोगित्वं सङ्ख्यात्वस्य सङ्ख्यात्वे नास्तीति बाधः स्यादिति । अनेकवृत्तिपदानुपादाने बाध एव । यथैकवृत्तिर्यो गुण एकत्वम् । तत्र वर्तते वा गुणत्वसाक्षाद्व्याप्या जातिः सङ्ख्यात्वरूपा, तत्समानाधिकरणो योऽत्यन्ताभावो रूपत्वादीनाम्, तत्प्रतियोगित्वं च सङ्ख्यात्वस्य नास्तीति ।
ननु पृथक्त्वे बुद्धेरन्योन्याभावेनैवान्यथासिद्धः न तद्गुणान्तरमिति चेत् न । पृथक्त्वस्यावधिनिरूप्यत्वात् । अन्योन्याभावस्य प्रतियोगिनिरूप्यत्वात्-इदमस्माद् पृथगिदमिदं न भवतीति प्रतीतिवैलक्षण्याद् पृथक्त्वम्न्योन्याभावो न भवतीति । यदि पञ्चमीपदसमभिव्याहारेऽप्यन्योन्याभावप्रतीतिर्भवति तदा नञ्पदसमभिव्याहारेऽपि घटान्न पट इति प्रतियोगेऽपि अन्योन्याभाव प्रतीतिः स्यादिति ततो भेदः । (८) संयोगः ।
मूले "संयुक्तव्यवहारे हेतुरिति यथा कालेऽतिव्यासिवारणायासाधारणपदम् । व्यवहारस्य पूर्वपदनिर्वचनात् विवक्षान्तरं लक्षणस्य । विभागप्रतियोगिकान्योन्याभाववत्त्वे सत्यनेकवृत्तिमात्र वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वं संयोगत्वम् । सत्यन्तं विभागेऽतिव्याप्तिः । वाचनार्थम गुणत्वपदानुपादाने द्रव्यत्वेऽतिव्याप्तिः । साक्षात् पदानुपादाने एतत्संयोगवत्त्वमादाय संयोगान्तरे१. B पक्षाः. २. This reading is corruptin B. ३. B पददानेनुपादाने (!) ४. It is संयुक्तव्यवहार हेतुः in त.भा.प्र.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org