________________
तर्कतरङ्गिणी
व्यवहारपदनिर्वचनेन लक्षणं दूषयति- व्यवहारेति - यदि व्यवहारपदेन शब्दग्राह्यो प्रयोगो गृह्यते तदाऽसम्भवः शब्दस्तु व्यवहर्तव्यः । यो पदार्थों प्रकृते परिमाणरूप:, तेन न जन्यत इति । यदि व्यवहारपदेन मानविषयकं प्रत्यक्षज्ञानम्, तदाऽतीन्द्रियपरिमाणेऽतिव्यातिः । तद्वारणार्थं टीकाकृता व्याख्यातं परिमाणजातिमदित्यर्थ इति भावः । ननु परिमाणत्वजातिसिद्धौ किं प्रमाणमिति चेत्, न । अनुगतप्रत्यक्षमेव । यद्युच्यते इदं प्रत्यक्षप्रमाणमतीन्द्रियपरिमाणसाधारणं न भवतीति तदाऽनुमानमेव वाच्यम् । यथा ‘महत्परिमाणं महापरिमाणासमानाधिकरणगुणवृत्तिगुणत्वव्याप्यजातिमत्, मूर्तगुणत्वात्, रूपवत्।' महापरिमाणेन सहासमानाधिकरणा या गुणवृत्तिः गुणत्वव्याप्या जातिः तद्वत्त्वं साध्यम् पक्षधर्मताबलात्परिमाणत्वं जातिः सिध्यति । मूर्तपदं च ज्ञानादौ व्यभिचारवारणाय हेतोः । अन्यथा गुणत्वं वर्तते ज्ञाने । तत्र महेत्यादि साध्यं नास्ति । महापरिमाणाधिकरणे आत्मनि ज्ञानस्य सत्त्वेन व्यभिचारः स्यात् । तत्र ज्ञाने साध्याभावात् ।
२०६
प्रशिथिलेतीति । कार्यद्रव्यासमवायिकारणीभूतो यः संयोगस्तत्र प्रशिथिलत्वं नाम संयोगत्वव्याप्यो जातिविशेष:, येन संयोगविशेषेण स्थूलोऽवयवव्युत्पद्यत इत्यर्थः ।
(७) पृथक्त्वम् ।
पृथग्त्वव्यवहारे' हेतुरिति मूलम् । ननु कालेऽतिव्याप्तिः, तस्यापि जन्यमात्रकारणत्वादिति चेत्, न । अवधिव्यङ्ग्यत्वे सत्येकमात्रवृत्ति वृत्त्यनेकवृत्तिवृत्तिगुणत्वजातिमत्त्वं पृथक्त्वम् । यथा घटात्पटः पृथगित्यत्र घटो भवत्यवधिः । एवं सर्वत्र पञ्चम्यन्तं पदम् । पृथक्त्वपदं समभिव्याहरेण पञ्चम्यन्तं पदार्थोऽवधिः । तथा चावधिव्यङ्ग्यत्वे सति एकमात्रे वर्तते यो गुणः तद्वृत्तित्वे च सति या गुणत्वव्याप्या जातिः, तद्वृत्तित्वमित्यर्थः ।
आद्यं सत्यन्तं द्वित्वादिसङ्ख्यायामतिव्याप्तिवारणार्थम् । तत्राप्येकमात्रवृत्ति गुणे भवत्येकत्वम्, तद्वृत्तिर्भवति सङ्ख्यात्वम् सैवानेकवृत्तिवृत्तिर्भवति । यतोऽनेकपदार्थवृत्तिर्भवति द्वित्वातद्वृत्तिर्दित्वाद भवति सङ्ख्यात्वम् । सैव च गुणव्याप्या जातिर्भवति । तद्वत्त्वं द्वित्वादावस्ति । तद्वारणार्थमवधिव्यङ्ग्यत्वपदम् । द्वित्वैकत्वादीनामवधिव्यङ्गत्वं नास्ति । एकमात्र वृत्ति पदादाने एकपृथक्त्वेऽव्याप्तिः । यथाऽवधिव्यङ्ग्यत्वे सत्यनेकवृत्तिवृत्तिर्भवति गुणत्वव्याप्या जातिः द्विपृथक्त्वम् तद्वत्त्वं चैकपृथक्त्वे नास्तीति । तद्वारणार्थकमेकमात्रवृत्तिवृत्तिपदम् द्विपृथक्त्वं चैकमात्रवृत्ति न भवतीति तत्र नाव्याप्तिः । अनेकवृत्तिवृत्तिपदं च द्वित्वपृथक्त्वेऽतिव्याप्तिवारणार्थम्। अत्राप्यवधिव्यञ्यत्वे सति एकमात्रवृत्तिवृत्तिर्या गुणत्वव्याप्या जातिरेकपृथक्त्वम् । तद्वक्त्कंव द्विपृथक्त्वे नास्तीत्यव्यासि: । अत उक्तमनेकवृत्तिवृत्तिपदम् । एकपृथक्त्वस्य यद्यप्येकमात्रवृत्तिवृत्तित्वं वर्तते, १. B It is पृथग्व्यवहारासाधा.. in त. भा. प्र.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org