________________
तर्कतरङ्गिणी
२०५ (६) परिमाणम् ।
परिमाणत्वजातिमदिति-यथाश्रुतमूले यस्यातीन्द्रियस्य परिमाणं न गृह्यते तत्र परिमाणेऽव्याप्तिः स्यात् । अत्राह तत्रापि परिमाणत्वं जातिरस्तीति विवक्षया । ननु परिमाणस्य परिमाणत्वं लक्ष्यतावच्छेदकत्वं तदेव यदि लक्षणं क्रियते तदा व्यतिरेक्यनुमाने वैय्यर्थापतिरिति चेत् न । कालवृत्तिवृत्तित्वे सति एकवृत्तिमात्रवृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वं परिमाणत्वम् ।
अयमर्थः कालवृत्तिर्यो गुणस्तत्र वर्तते या जातिः अथ चैकद्रव्यवृत्तिर्यो गुणस्तन्मात्रवृत्तित्वे सति, गुणत्वस्य साक्षाद्व्याप्या जातिः, तद्वत्त्वं प्रथम सत्यन्त रूपादावतिव्याप्तिवारणार्थम् । तत्राप्येकद्रव्यवृत्ति भवति रूपम् । तत्र वर्तते यो(या)गुणत्वसाक्षाद्व्याप्या जातिः रूपत्वस्वरूपा तद्वत्त्वं रूपे तिष्ठतीति । तथा च रूपत्वस्य कालवृत्तिर्यः संयोगादिः तद्वृत्तित्वान्नातिव्याप्तिः । एकवृत्तिर्यः संयोगादिः । एकवृत्तिमात्रवृत्तिपदं कालसंयोगादावतिव्याप्तिवारणार्थम् । तस्यापि कालवृत्तिवृत्तित्वे सति गुणत्वसाक्षाद् व्याप्या जातिः संयोगत्वरूपा, तद्वत्त्वं कालघटादिसंयोगेऽस्तीति । व्याप्यपदादाने गुणत्वमादाय गुणमात्रेऽतिव्याप्तिः स्यात् । तस्यापि कालवृत्तिवृत्तित्वे सति एकवृत्तिगुणत्वजातिमत्त्वमस्त्येव । एको भवति घटः, तद्वृत्ति रूपादिकम् तद्वृत्ति भवति गुणत्वमिति । तद्वत्त्च गुणमात्रे तिष्ठतीति तदर्थं गुणत्वव्याप्या या जातिरिति ।
साक्षात्कारपदं चैकत्वेऽतिव्याप्तिवारणार्थम् ।
तस्यापि कालवृत्ति यदेकत्वं-तत्त्वे सत्येको यो कालस्तवृत्ति यदेकत्वं तन्मात्रवृत्तिर्या गुणत्वव्याप्या जातिरेकत्वरूपा तद्वत्त्वं च कालैकत्वेऽतिव्याप्तिः स्यात् । तद्वारणार्थं साक्षात्पदम् । सङ्ख्यापरिमाणत्वस्यैव गुणत्वस्य व्याप्यत्वात् ।
जातिपदं समवायसम्बन्धेन तद्वत्त्वबोधार्थम् । अन्यथा द्रव्यादौ सर्वत्रातिव्याप्तिः स्यात् । द्रव्यस्यापि कालवृत्तिवृत्तिर्या' जातिः परिमाणत्वं तदेवैकवृत्तिमात्रवृत्तिर्भवति । सैव 'च गुणत्वसाक्षाद्व्याप्या जातिर्भवति । तद्वत्त्वं यथा परिमाणे तिष्ठति तथा स्वाश्रयाश्रयसम्बन्धेन द्रव्यमात्रेऽपि तिष्ठति । स्वशब्देन परिमाणत्वम्, तदाश्रयो भवति परिमाणम्, तस्याश्रयो भवति द्रव्यम्। अनेन सम्बन्धेन परिमाणं द्रव्ये वर्तते-इत्यतिव्याप्तिः । एतन्निरासार्थं समवायपदम् । तथा च समवायसम्बन्धेन परिमाणत्वं द्रव्ये नास्तीत्यतिव्याप्तिर्न भवतीत्यर्थः ।
अन्यथेति मूले यद्वर्तते 'मानव्यवहारासाधारणं कारणमिति, तत्र[T]साधारणपदकृत्यमाहकालादाविति । कालस्यापि कार्यमानं प्रति कारणत्वेन कालेऽतिव्याप्तिः स्यात् । तद्वारणार्थमसाधारणपदम् । १. B कालवृत्ति. २ B omits च. ३. B परिमाणत्वे वर्तते. ४. B -वायिपदम्. ५. A -व्यवहार साधा.. ६. B -मित्युक्तं.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org