Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 266
________________ तर्कतरङ्गिणी २२५ घटान्योन्याभावप्रतियोगी भवति घटस्तस्यावच्छेदकं भवति घटत्वम्, तस्य योऽत्यन्ताभाव: स घटे नास्ति, वर्तते च पटादौ । तत्र घयन्योन्याभावस्यापि सत्त्वात् । तथा च घटप्रतियोगिकान्योन्याभावस्य घटत्वात्यन्ताभावातिरिक्तत्वे प्रमाणं नास्ति । अतिरिक्तकल्पनायां तु गौरवम् । लाघवात् घटः पटो न भवतीति प्रतीतौ घटत्वस्य योऽत्यन्ताभावः घटे, स एव पटे घटस्यान्योन्याभावः । बाधकाभावात् अतिरिक्तपदार्थकल्पनायां गौरवम् । तच्चिन्त्यम् । तथा सति घटत्वज्ञानव्यतिरेकेण घटान्योन्याभावबुद्धिरेव न स्यात् । घान्योन्याभावस्य तव मते घटत्वात्यन्ताभावात् । तस्य प्रतियोगितावच्छेदकं भवति घटत्वम् । तदवच्छिन्नज्ञाने तदभावज्ञानानुदयात् । अभावज्ञानं प्रतियोगितावच्छेदकावच्छिन्न प्रतियोगिज्ञानस्य कारणत्वात् । तथा च प्रकृते प्रतियोगितावच्छेदकं घटत्वम् । तेन च रूपेण घटत्वस्याज्ञानात् । तदत्यन्ताभावबुद्धि न जायते । अन्योन्याभावः पृथगेवेति । अथवा ध्वंसत्वात्यन्ताभाववत्त्वे सति प्रतियोग्यवृत्तिनित्याभावोऽन्योन्याभावः । अयमर्थ:-योऽभावस्त्वप्रतियोगिनि न वर्ततेऽथ च योऽभावो नित्यो भवति, अथ च ध्वंसत्वानाधिकरणी भूतो भवति सोऽन्योन्याभावः "इत्यर्थः । यथा घटः पटो न भवतीत्यर्थ, पटान्योन्याभावो घटे। अयं चाभावः स्वप्रतियोगिनि घटे पटान्योन्याभावो नास्ति । अथ च तस्य नाशो नास्ति । अत एवान्योन्याभावो नित्यः । तत्रान्योन्याभावे ध्वंसत्वात्यन्ताभावोऽप्यस्ति । सत्यन्तं ध्वंसेऽतिव्याप्तिवारणार्थम् । अन्यथा प्रतियोग्यवृत्तिनित्याभावो ध्वंसोऽपि भवति । ततस्तदुपादाने नातिव्याप्तिः । यदि नित्याभावत्वमात्रम्, तदाऽत्यन्ताभावेऽतिव्याप्तिः । अत उक्तं प्रतियोग्यवृत्तीति पदम्। घटेऽपि घटाभावान्घटात्यन्ताभावोऽस्ति । नित्यपदं प्रागभावेऽतिव्याप्तिवारणार्थम् । ध्वंसत्वात्यन्ताभावस्तु प्रागभावादित्रिकेऽस्तीति । अनेन लक्षणेनान्योन्याभावो भिन्न एव । स तु व्याप्यवृत्तिरेव । अत्यन्ताभावस्तु किञ्चिदवच्छेदेनैवेति सिद्धान्तः। शिरोमणिमतेऽन्योन्याभावोऽप्यव्याप्यवृत्तिर्यथाऽत्यन्ताभावोऽप्यव्याप्यवृत्तिः कपिसंयोगात्यन्ताभावस्थले सिद्धः । प्रतीत्या यथा मूले कपिसंयोगः शाखायां नेति । तथाऽन्योन्याभावोऽपि । यथापि मूले वृक्षः कपिसंयोगवान् शाखायां नेति प्रतीत्या शाखावच्छिने वृक्षे कपिसंयोगवदन्योन्याभावः प्रतीयते-इत्यव्याप्यवृत्तिरन्योन्याभाव इति । न च तत्र वृक्षेऽन्योन्याभावविरोधिनः प्रतियोगितावच्छेद[क]धर्मस्य तत्र सत्त्वेन कथमन्योन्याभाववृत्तिः स्याद्, यथाऽन्योन्याभावस्य विरोधी भवति प्रतियोगितावच्छेदको धर्मस्तथा च यत्रान्योन्याभावप्रतियोगितावच्छेदको धर्मो भवति घटत्वादिस्तत्र घटन्योन्याभावो न तिष्ठति, तथा च संयोगवदन्योन्याभावस्य प्रतियोगितावच्छेदको भवति संयोगस्तस्य वृक्षवृत्तित्वेन कथं वृक्ष संयोगवदन्योन्याभाव इंति वाच्यम् । तथा सति १. B कल्पनागौरवम् । २. A पृथगिति वेति ३. B भूतोऽयं भवति. ४. B om its the reading betweeen इत्यर्थः......न्योन्याभावो. तर्क.-२९ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306