Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 273
________________ २३२ तर्कतरङ्गिणी बुद्धिशब्दार्थमाह-बुद्धिश्चेति । अत्र बुद्धिपदेनेदं विवक्षितम्-यथा भोगावच्छेदिका कारणीभूता या क्रिया, तद्द्वारा तादृशो यो प्रयत्नः अदृष्टजनकी भूतो यः, स एव शरीरारम्भकः । तथा च मनस(सि) भोगजनिका क्रियोत्पन्ना, तद् द्वारा प्रयत्नः उत्पन्नः । तदनन्तरमदृष्टमुत्पन्नम्, तदनन्तरं कालान्तरे तेनैवादृष्टेन शरीरमारभ्यते इत्यन्वयः । यथा सामान्यतः पूर्वं यागविषयकं ज्ञानं जायते, तदनन्तरं यागे इच्छा जायते । तत इच्छया यागविषयकः प्रयत्नः उत्पाद्यते, तदनन्तरं प्रयत्नेन यागादि क्रिया जन्यते । तया पुनरदृष्टमुत्पाद्यते । तदैव यागस्य द्वारं स्वर्गजनने स्वर्गसुखजनने । सुखं च शरीरव्यतिरेकेण न सम्भवतीति प्रथमतोऽदृष्टेन शरीरमुत्पाद्यते । तदवच्छेदेनात्मनि यागजन्यादृष्टेन सुखं जन्यते इति प्रयत्नस्य परंपरया भोगजनकत्वं तिष्ठतीत्यभिप्रायः । (VIII) दोषाः । __ अथ "दोषानाह-दोषैः प्रवृत्ति र्जन्यते । अत एव योगिनां दोषाभावेन कुत्रापि प्रवृत्तिर्न जायते। अतो न तेषां धर्माधर्मोत्पत्तिः । प्रवृत्तिजनकेति तथा च दोषसामान्यलक्षणमिदम् । यथा प्रवृत्तिजनकीभूता ये आत्मानं प्रति विशेष गुणास्तत्त्वं दोषत्वम् । इदं च रागादित्रयेऽपि सामान्यलक्षणं तिष्ठतीति सामान्यलक्षणं हदि विचार्य विभजते दोषात्-अदृष्टजनकेति, इदं रागस्य लक्षणम् । यथा-अदृष्टजनकी भूतो यो यत्नस्तस्य जनकीभूतेच्छा स राग इत्यर्थः । तथा चादृष्टकारणं भवति यत्नः, यत्नस्य कारणं भवतीच्छा । यथा पूर्वमिच्छा, ततो यत्नक्रियाकारणीभूतात्मविशेषगुणाः । इच्छाव्यतिरेकेण यत्नानुत्पादात् । ततो यत्नाददृष्टमुत्पद्यते । अदृष्टं तु यागादि विषयकयत्नेनैव जन्यते । नापि गमनविषयकेणेति रागः इच्छारूप: उक्तलक्षणः । नात इति "जीवन्मुक्ते नारदादावदृष्टाभावाददृष्टजनको यत्ननो नास्तीति न तेषां राग इत्यर्थः । द्वेषत्वेति तथा च दुःखजनकीभूतादृष्टजनकत्वमेव द्वेषत्वमात्मन इति । (IX ) प्रेत्यभावः । तथा चात्मनः पूर्वदेहेन समं विभागे सत्त्युत्तरदेहेन यः सम्बन्धः स एव प्रेत्यभाव इत्यर्थः । (X) फलम् (भोगः)। “मूढभाव( भोग ?) इति । नारदादिभोगादौ तु मिथ्याज्ञानाभावात् मूढभोगो नास्ति । मूढभोगस्तु सांसारिकभोग एवेति भावः ।। - १. Bom its द्वारा. २. Bomits the reading between तदनन्तर....ज्ञानं जायते। ३. B -जनकं. ४. B दोषमाह. 1.A गुणास्त..६. B -गुणः.७. B तथा चात्मनः जीवन्म.. ८. This प्रतीक is not found in त.भा.प्र. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306