Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 272
________________ तर्कतरङ्गिणी २३१ न भवतीत्यत्र घटत्वं पूर्वं 'पटेऽऽरोप्यते । यतो घटत्वं पटे नास्तीति । अत एव तदारोप्यते । घटः पटः इत्येतावन्मात्रे घटत्वारोपः, उत्तरत्र तन्निषेध इत्यर्थः । तथा च प्रतियोगितावच्छेदकं च सदेव । तेन च नान्योन्याभावस्य तुच्छता । [इत्यभावग्रन्थः समाप्तः ।] [२४] प्रमेयप्रकरणम् । [Cont.] (VI) बुद्धिः । अथ च प्रमेयसूत्रान्तर्गत बुद्धिपदार्थमाह-स्वप्नस्येति -तथा च स्वप्ने इदंता, [त]त्प्रत्यक्षविषयिणी निद्रारूपदोषादेवेत्यर्थः । जाते इति उत्पन्नं यज्ज्ञानं तत्र स्वविषयीभूतेनार्थेन स्वस्याकारो ज्ञाने जन्यते । तथा चार्थेन स्वाकारो ज्ञाने जन्यते-इति --इत्येकः पक्षः। द्वितीयपक्षार्थस्तु यदा ज्ञानमुत्पद्यते तदा स्वीकारः स्वशब्देन विषयस्तस्याकारः, स्वरूपं तद्विशिष्टत्वेन यदा घटज्ञानमुत्पद्यते तदा घटरूपेणैवोच्यते । इति द्वितीयपक्षार्थः । ज्ञानज्ञानेति-यथा घटमहं जानामीत्यत्रार्थो घटोऽपि भासत इति ज्ञानज्ञानस्यार्थ निरुप्यत्वम् । इदं दूषयति-ज्ञानमस्तीति अत्रार्थप्रतिपादकपदाभावाज्ज्ञानमात्रप्रतिपादकसत्त्वात्' शुद्धज्ञानमेव भासते । ततः सर्वं ज्ञानमर्थनिरुप्यं न भवतीत्युक्तं सामग्र्यसम्पत्तिरिति विषयप्रतिपादकपदरूपा सामग्री तत्र नास्तीति न विषयनिरुप्यत्वं ज्ञानमात्रस्येत्यर्थः । (VII) प्रवृत्तिः । सूत्रस्थां प्रवृत्तिः व्याचष्टे-धर्माधर्ममयीति प्रवृत्तेः धर्माधर्ममयत्वं धर्माधर्मस्वरूपत्वं न सम्भवतीत्यन्यथा व्याचष्टे-धर्माधर्मजनकेति- तथा च प्रवृत्तेर्लक्षणं अदृष्टस्य जनको योऽनित्ययत्नः तत्त्वम् । तथा चादृष्टजनकपदं जीवनयोनियत्नेऽतिव्याप्तिवारणार्थम् । येन यत्नेन निद्रादशायामपि श्वासादिकमुत्पद्यते तददृष्टजनकत्वं न भवतीति न न लक्ष्यम् । लक्ष्यतावच्छेदकं च धर्माधर्मजनको यः संसारियत्नस्तत्त्वं लक्ष्यम् । लक्ष्यतावच्छेदकं च तथा यत्र धर्माधर्मजनकः संसारियनस्तत्रैव तल्लक्षणम्, जीवनस्य योनि:कारणम्, एतादृशो यो यत्नस्तत्र लक्ष्यतावच्छेदकं नास्तीति तदलक्ष्यम् । तद्वारणमर्थमदृष्टजनकं पदम् । वाग्क्रियावाग्यनः । तथा च वागुच्चारणविषयकः प्रयत्न इत्यर्थः। आत्मेति - आत्मधर्मस्य ज्ञानरूपस्योपादानद्वारा ग्रहणद्वारा । तथा च ज्ञानेनेच्छा, इच्छया च यः प्रयत्नः, प्रयत्नेन च क्रिया, क्रियया कृत्वा प्रयत्नस्यानुमानं क्रियते । १. B omits पटे. २. B omits च. ३. B अत्र. ४. B -शिष्टेन. ५. B -पादकपदसत्त्वात्. ६. B om its न. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306