Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 267
________________ २२६ तर्कतरङ्गिणी संयोगात्यन्ताभावोऽप्यव्याप्यवृत्तिर्न स्यात् । अत्यन्ताभावविरोधी भवति प्रतियोगी। तथा च यत्र घटत्वं तिष्ठति तत्र घटत्वात्यन्ताभावो न तिष्ठति । प्रतियोगि भवति घटत्वम्, तद्विरोधित्वाद घटत्वात्यन्ताभावस्येति सर्वप्रतियोगिना सममत्यन्ताभावस्य विरोध्येव । तथा च वृक्षे प्रतियोगिनः संयोगस्य सत्त्वेन तत्र तदत्यन्ताभावो न स्यात् । यद्युच्यते यदनवच्छेदेन संयोगरूपः प्रतियोगी तिष्ठति तदवच्छेदेन तदत्यन्ताभावो मा तिष्ठतु । तत्र तदवच्छेदेन विरोधिनः संयोगस्य सत्त्वाद् अन्यावच्छेदेन तु तदसत्त्वेन तदत्यन्ताभावस्तिष्ठत्येव । यथा प्रकृतेऽपि यदनवच्छेदेन प्रतियोगितावच्छेदको धर्मस्तिष्ठति तदवच्छेदेन तद्वदन्योन्याभावो समाः तिष्ठतु, परमन्यावच्छेदेन विरोधिना प्रतियोगितावच्छेदकधर्मस्यासत्त्वेन तद्वदन्योन्याभावस्तत्र स्थास्यत्वेवाबाधकादिति दिक् । अथ घटात्यन्ताभावात्यन्ताभावोऽपि प्रतियोग्येव । यथा घटवति भूतले घटत्यन्ताभावो नास्तीति प्रतीतेः सत्त्वात् । घटतिरिक्तो घटत्यन्ताभावाभावो न कल्प्यते । गौरवात् । क्लृप्तेनैव प्रतीतिसम्भवात् । अक्लृप्तकल्पनायां मानाभावात् । घटान्योन्याभावात्यन्ताभावस्तु प्रतियोगितावच्छेदको धर्मो घटत्वादिरेव । यथा घटे घटान्योन्याभावो नास्तीति प्रतीतेरुदयात् । अन्यथा यदीयं प्रतीतिः प्रतियोगिनैव क्रियते, यथा तदन्योन्याभावात्यन्ताभावो यदि प्रतियोग्येव तदा घटवत्यपि भूतले घटन्योन्याभावो नास्तीति प्रतीतिः स्यात् । तत्र तदन्योन्याभावात्यन्ताभावस्य घटे लक्षणस्य सत्त्वात् । यदि वा कपाले घटघटन्योन्याभावयोरुभयोः सत्त्वेन सहानवस्थानलक्षणविरोधभङ्गः स्यादिति । . नवीनमतेऽत्यन्ताभावाभावस्तु न प्रतियोगी किन्त्वतिरिक्त एव । यत्र प्रतियोगिनः ना[ना] भवन्ति तत्रैवातिरिक्तः । यथा घटत्यन्ताभावस्थले प्रतियोगिनः नाना भवन्ति । यथा घटात्यन्ताभावस्य घटाः भवन्ति बह्वः प्रतियोगिनः, तथा च तेषां सर्वेषां घटत्यन्ताभावाभावत्वं कल्पनीयम् । तदपेक्षया लाघवाद् घटातिरिक्तो घटत्यन्ताभावाभावो घटाधिकरणमात्रवृत्तिरन्य एव स्वीकर्तव्यः । तथा चानेके घटानां घयत्यन्ताभावो नास्तीति प्रतीतिविषयत्वम् । 'उतातिरिक्तैरेकाभावस्येति' लाघवात् । अतिरिक्त एवेति । यधुच्यतेऽक्लुप्तकल्पनातो भवन्मते एव गौरवम्, तदाऽभावोऽप्यतिरिक्तो न सिद्धेत् । मीमांसकैरधिकरणस्यैवाभावत्वाङ्गीकारात् । यथा मीमांसकं प्रति लाघवा[त्]तर्केण भूतलाद्यति रिक्तोऽभावः साध्यते । तथाहि यदि भूतलाादिकमेव नानाघटत्वात्यन्ताभावस्वरूपं तदा महद्गौरवमलाघवात् । भूतलादिवृत्तिरेकोऽभावोऽतिरिक्त एवेति । तथाप्यत्राप्यतिरिक्तकल्पनैव लघीयसी। यत्र पुनः प्रतियोगी भवत्येकस्तत्रात्यन्ताभावाभाव: प्रतियोग्येव । यथा घटत्वात्यन्ता१. B तत्राति.. २. B -रिक्तैकभा.. ३. B नास्ति । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306