Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 265
________________ २२४ तर्कतरङ्गिणी शब्दप्रयोगः कृतः, तदा श्रोतुः संयोगसम्बन्धेनैवाभावप्रतीतिः कुतो न जायते ? तत्र नियामकमिदमेव वाच्यम् । तथा च येन सम्बन्धेन प्रतियोगिनोऽऽरोपः कृतः-यथा 'संयोगसम्बन्धेन घटवति भूतले घटो नास्तीति शब्दप्रयोगः । तदनन्तरं या बुद्धिर्जायते सा समवायसम्बन्धेनैव, न संयोगसम्बन्धेन । संयोगस्य विद्यमानत्वेन संयोगसम्बन्धेन प्रतियोगिनोऽऽरोपो नास्ति ।-इत्यभावस्यारोपज्ञानं प्रति कारणता संसर्गाभाव इति । (२) अन्योन्याभावः । अन्योन्याभावस्तु यत्र प्रतियोगितावच्छेदकमारोप्य यस्य यत्र निषेधः क्रियते, तत्र तस्याभावोऽन्योन्याभावः । तथा च घटः पटो न भवतीति । अत्र घटे प्रतियोगितावच्छेदकं पटत्वमारोप्य निषिध्यते । अतो घटे प्रतियोगिकान्योन्याभावविषयिणी प्रतीतिर्जायते । यथा वा तादात्म्यसम्बन्धेन प्रति योगिनमारोप्य यत्र यस्य निषेधः क्रियते तत्र तस्यान्योन्याभावः । यथा प्रथमत उक्तं-घट-पट इति । तादात्म्यसम्बन्धेन घटे पट आरोपितः । तदनन्तरं नत्रा घटः पट नेत्यत्र योऽभावः प्रतीयते स एवान्योन्याभावः । अथवा घटः पट इत्युक्ते प्रतियोगितावच्छेदकं यत्पटत्वं समवायसम्बन्धेन तदारोप्य यदा पटस्य निषेधः क्रियते तदा घटे पटप्रतियोगिकान्योन्याभाव एवेति । अत एव घटः घटोनेति प्रतीति न जायते । तत्र समवायसम्बन्धेन घटत्वस्य विद्यमानत्वेन तादात्म्यसम्बन्धेन घटस्य च विद्यमानत्वेनारोपाभावात् । जायते नीलघटः पीतघो नेति प्रतीतिः । तत्र नीलघटे पीतघटत्वस्य तादात्म्यसम्बन्धेन "पीतघटस्य चारोपसम्भवात् । (३) अत्यन्ताभावान्योन्याभावयो विशेषः । अयमर्थो निष्कृष्टः-यत्र तु नत्रस्थले यत्राधिकरणेऽनुयोगिन्याधारता सप्तमीविभक्त्या प्रतिपद्यते तत्र संसर्गाभावप्रतीतिर्जायते यथा भूतले घटो नास्तीति । अथ यत्र नञ् नास्ति, अथ च मतुप्प्रत्ययस्तिष्ठति तत्रापि संसर्गाभावप्रतीतिः सप्तमीविभक्तिव्यतिरेकेणापि जायते । यथाघटाभाववद्भूतलमिति । नत्रस्थले त्वधिकरणता सप्तमीविभक्त्यैव यत्र प्रतीयते तत्र संसर्गाभाव एव । यत्र मतुप-प्रत्ययो(ये)नाधिकरणता प्रतीयते तत्र सप्तम्या विनाऽपि संसर्गाभाव एव प्रतीयते । यत्र पुनरनुयोगिनि प्रतियोगिनि च नञ्-स्थले प्रथमा विभक्तिस्तत्रान्योन्याभाव एव । यथा घटः पटो नेति । अत्र नबर्थो भवत्यभावस्तस्य प्रतियोगी भवति पटः, तत्प्रतिपादकं पटपदम् । तत्र प्रथमा विभक्तिर्भवति । अनुयोगि भवति घटस्तत्प्रतिपादकं घटपद तत्रापि प्रथमाविभक्ते. सत्त्वाद् यद्यत्र घटे पये नेति प्रतीतिः, तदाऽत्यन्ताभाव एव प्रतीयेतेति । प्रतीतिवैलक्षण्यादभाववैलक्षण्यम् । वस्तुतस्तु प्रतियोगितावच्छेदकात्यन्ताभाव एव प्रतियोगिनोऽन्योन्याभावः । यथा १. B तथा. २. B पटो. ३. A adds सामान्यसम्बन्धेन after विद्यमानत्वेन. ४. B पीतस्य . ५. A omits तु. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306