Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 264
________________ २२३ तर्कतरङ्गिणी नैयायिकानां मतेऽनंतत्वात् । ततः समवायोऽतिरिक्तः इति स्वरूपसम्बन्धेनैव निर्वाहात् । तथा च समवायिकारणत्वमपि घयदिनिष्ठाधेयताविशेषनिरुपिताधारताविशेषसम्बन्धेन यत्र घटादिरुत्पद्यते तदेव समवायिकारणं स्वरूपमेव, न त्वतिरिक्तं पदार्थान्तरम् । प्रमाणाभावात् गौरवाच्चेति । भवतामिति नैयायिकानामिति शेषः । तथा च भवदभिमते उदाहरणेऽस्माकं विवाद इत्यर्थः । इति समवायग्रन्थः । [२३] अर्थप्रकरणे अभावनिरूपणम् ॥ इदानीमभावनिरूपणम् । स च द्विविधमिति मूलम् । (१) संसर्गाभावः । संसर्गाभावस्य हीदं लक्षणम् । रेयत्र संसर्गेण संयोगादिसम्बन्धेन प्रतियोगिनामारोप्यनिषेधः क्रियते, तत्र संसर्गाभावः । यथेह भूतले घटो नास्तीत्यत्यन्ताभावः प्रतीयते । प्रथमतोऽत्र संयोगसम्बन्धेन घटस्यारोपः क्रियते-भूतले घट-इत्येतन्मात्रम् । तदनन्तरं नजाऽभावः प्रतिपाद्यते । ततोऽयमेव संसर्गाभावः। ___ एवं प्रागभावोऽपि । यथा घटोत्पत्तेः पूर्वकाले इह कपाले घटो नास्तीति । तदानीं प्रागभावविषयिणी प्रतीति र्जायते । तत्र तदत्यन्ताभावस्यासत्त्वात् । अग्रे कपाले एव घटस्योत्पाद्यमानत्वात् । तदा घटानुपपत्त्या ध्वंसविषयिणी प्रतीतिर्नजायते एव । तथा च प्रागभावादित्यत्र 'घटस्थलेऽपि प्रतियोग्यारोप्य(य) हेतुकाभावधीविषयः५ संसर्गाभाव एव । ध्वंसोऽपि कपालमालायां घटनाशानन्तरं कपाले घटो नास्तीति प्रतीतिर्जायते, सा ध्वंसविषयिण्येवेति । नन्वारोपो नाम यत्र यत्रास्ति तत्र तत्र]तस्य प्रसङ्गः, तस्याभावज्ञानं प्रति कारणत्वे किं प्रमाणमिति चेत्, न । भूतले घटो नास्तीत्यत्र संयोगसम्बन्धेन भूतले यदा घटज्ञानं जातं तदा तेन सम्बन्धेन तदानीं तदभावज्ञानानुदयात् । जायते च तत्रैव समवायसम्बन्धेन तदभावप्रतीतिरिति । तथा च येन सम्बन्धेन प्रतियोगी यत्रारोप्यते तेनैव सम्बन्धेन तत्राभावप्रतीति र्जायते । अन्यथा संयोगसम्बन्धेन घटवति भूतले समवायसम्बन्धतात्पर्यकेण श्रोतारं प्रति 'इह भूतले घो नास्ती'ति १. B नैयायिकमतेनान्तत्वात् । २. It is द्वेधा in त. भा. ३. B यथा ४. B omits घट. ५. B -विषयी. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306