Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 262
________________ २२१ तर्कतरङ्गिणी अन्यब्राह्मणव्यभिचारात् । उभयं च ब्राह्मणावस्थायां विश्वामित्रशरीरे तिष्ठतीति । तथा च विश्वामित्रनिष्ठान्यब्राह्मणव्यावृत्त्या भिन्नेव तिष्ठतीति चतुष्टयम् । जातिप्रत्यक्षे ब्राह्मणजन्यत्वे सति ब्राह्मणाजन्यत्वं व्यज्जकम्, विद्यमाने सन्निकर्षकृष्टेऽपि ब्राह्मणे ब्राह्मणत्वसन्देहात् यदोक्तं व्यज्जकं जातम्, तदा तु झटित्येव ब्राह्मणत्वनिश्चयो भवतीति । [इति सामान्यप्रकरणम् ।] [२१] अर्थप्रकरणे विशेषनिरूपणम् ॥ विशेषपदार्थलक्षणे सामान्येति सामान्ये एकमात्रसमवेतत्वं नास्ति । इति विशेषप्रकरणम् । [२२] अर्थप्रकरणे समवायनिरूपणम् ॥ समवायग्रन्थे शङ्कते नन्विति परमाणुरथ च परमाणुरूपध्वंस: अनयोर्यः स्वरूपसम्बन्धविशेषः तस्यायुतसिद्धप्रतियोगिकत्वात् परमाणुरूपध्वंसौ परस्परमयुतसिद्धौ भवतः इत्यपि व्याप्तिः । समाधत्ते-स्वरूयेति तथा चेदं लक्षणं जातम्-अयुतसिद्ध्यो' यः स्वरूपसम्बन्धातिरिक्तो भावलक्षणः सम्बन्धः समवायमित्यर्थः । तथा च परमाणुतद्रूपध्वंसयो यः स्वरूपसम्बन्धविशेषस्तत्र तत्र स्वरूपसम्बन्धातिरिक्तत्वाभावान्नतिव्याप्तिः । भावत्वानुपादान इति यदि लक्षणे भावपदं न दीयते, तदा भूतले घटो नास्तीत्यभावेऽतिव्याप्तिः स्यात् । तत्राप्ययुतसिद्ध्योरभाव भूतलयोः स्वरूपसम्बन्धातिरिक्तत्वभावे तिष्ठतीत्यतिव्याप्तिः । ततः उक्तम्-भावत्वेति तथा च तत्र भावत्वाभावान्नातिव्याप्तिरित्यर्थः । समवायस्त्वेक एव । ___ अत्र किञ्चिद् विचार्यते-समवायसम्बन्धस्तु स्वरूपातिरिक्त [एक]एव । लाघवात् । यत्रैकस्मिन्नैव घटे पाकेनैकस्मिन्नैव क्षणे रूपरसगन्धस्पर्शारुत्पादितास्तत्र रूपादिचतुष्टयस्य घटस्य च परस्परं स्वरूपसम्बन्धत्वं वाच्यम् । 'उत तेषामेक एव सम्बन्धो वाच्यः । लाघवात् । तदतिरिक्त एक एव रूपादिचतुष्टयप्रतियोगिकः समवाय: "सम्बन्धः सिध्यति । ननु रूपप्रतियोगिकः समवायः भिन्न एव-गन्धादीनामपि भिन्न इति चेत्, न । तदा समवायस्य सिद्धिरेव न स्यात् । यत्र क्षणे एकस्मिन्नेव १. B अन्ययो. २. B omits the reading between स्वरूप....ध्वंसयोर्य:. ३. B अत एतेषामे.. ४. B om its the reading between सम्बन्धः...समवायः. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306