Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 261
________________ तर्कतरङ्गिणी [त्]जातिरेव सेत्स्यति । यत्र चानुकूलतर्को नास्ति, तत्रानुगतप्रत्ययहेतुरूपाधिरेव । यथा घटत्वद्रव्यत्वादि र्जातिः । अत्र प्रथमतो द्रव्यमित्यनुगतप्रतीत्या द्रव्यत्वरूपं सामान्यं सिद्धम् । तत्र पुनः कार्यकारणभावरूपोऽनुकूलस्तर्कस्तिष्ठति । यथा संयोगत्वेन द्रव्यत्वेन च कार्यकारणभावः । तथा च संयोगत्वावच्छिन्नकार्यतानिरूपितसमवायिकारणतावच्छेदकत्वेन द्रव्यत्वजातिः सिध्यति । बाधकाभावात् । एवं संयोगत्वमपि द्रव्यनिष्ठकारणतानिरूपितकार्यतावच्छेदकत्वेन संयोगत्वमपि जाति: सिध्यति । न च गुणत्वादिनोपधिनैव भविष्यतीति वाच्यम् । गुणस्यैकस्याभावेन कारणतावच्छेदके गौरवात् । तथा च कारणतावच्छेदकत्वमेकस्य वा कल्पनीयमनेकस्य वा कल्पनीयम् ? लाघवादेकस्यैव द्रव्यस्य कल्पनीयम् । एवं घटत्वादिकमपि पार्थिवत्वादिव्याप्या जातिभिन्ना एव वाच्या । अन्यथा जातिसाङ्कर्यं स्यात् । तेजस्त्वेन समं यथा यत्र यत्र घटत्वं तत्र तत्र तेजस्त्वं नास्ति । यत्र यत्र पुनस्तेजस्त्वं तत्र तत्र घटत्वं नास्ति, [ यथा] सुवर्णकुण्डलादौ । उभयोः सङ्करः सुवर्णघटे । तथा च पर्थिवत्वव्याप्या' घटत्वरूपा जातिः, सा चं पार्थिवघटमात्रे तिष्ठति, न सुवर्णघटे । अथ च `तेजस्त्वव्याप्या या जातिः सुवर्णघटयदिवृत्ति, सा च पार्थिवघटे नास्ति । तथा च घटत्वस्य भिन्नभिन्नत्वे। तथा च पार्थिवत्वव्याप्या घटत्वरूपा भिन्नेति न सङ्करः । एवं दण्डत्वमपि जातिः तेजस्त्वव्याप्या भिन्ना, पार्थिवत्वव्याप्या भिन्ना । उपाधाविति यद्यनुवृत्तिप्रत्ययमात्रहेतुत्वं जातिलक्षणं तदोपाधावतिव्याप्तिः स्यादित्यर्थः । शेषं स्पष्टम् । अन्यथेति अयं घोऽयं घट इत्यनुगतप्रत्ययो जायते । न त्वगोव्यावृत्तोऽयमित्याकारः । घटेतरान्योन्याभावत्वमेव घटत्वमिति प्रतीतिर्जायते किन्तु विधिमुखेनैव प्रतीतिर्जायते इत्यर्थः । २२० ब्राह्मणत्वमपि चतुष्टयम्, नैकम् । (१) एकाखण्डप्रलयानन्तरं यदाऽऽद्यब्राह्मणा उत्पद्यन्ते तेष्वदृष्टविशेषजन्यतावच्छेदिका ब्राह्मणत्वजातिस्तिष्ठति । अग्रे तत्सन्ततौ ब्राह्मणत्वावच्छिन्नकारणतानिरूपितकार्यतावच्छेदकत्वेनाद्यब्राह्मणनिष्ठब्राह्मणत्वापेक्षया भिन्नैव तिष्ठति । आद्यब्राह्मणेष्वदृष्टविशेषजन्यतावच्छेदिका । यतोऽदृष्टविशेषणं यच्छरीरं ब्राह्मणशरीरजनीतं तच्छरीरे या वर्तते कार्यता, तदवच्छेदिका वा याऽऽद्यब्राह्मणेषु साऽतीन्द्रिया । (२) द्वितीयस्तु कार्यकारणभावः । “ब्राह्मणत्वेन चैका कारणतावच्छेदकत्वेन, (३) अन्या च कार्यतावच्छेदकत्वेन । इदं द्वयं कारणतावच्छेदकत्वेन, (४) अन्या कार्यतावच्छेदकत्वेन च चतुर्थी । विश्वामित्रशरीरे पूर्वं क्षत्रियोऽभूत् पश्चात्ब्राह्मणः । अदृष्टविशेषात् । तथा चादृष्टविशेषजन्यतावच्छेदिका जातिर्विश्वामित्रशरीरेषु भिन्ना । आद्यैकैव । तया विश्वामित्रेन समं सङ्करः । यथा यत्र यत्र विश्वामित्रत्वं तत्र [ तत्र ] ब्राह्मणत्वं नास्ति । क्षत्रियशरीरे व्यभिचारात् । यत्र यत्र ब्राह्मणत्वं तत्र तत्र विश्वामित्रत्वं नास्ति । १. B पार्थिवत्वरूपा. २. Bomits च. ३. B -च्छेदकब्रा. ४ B -जनीतं तज्जनीतं तच्छ. ५. A repeats ब्राह्मणत्वेन. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306