Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 259
________________ २१८ तर्कतरङ्गिणी कारणान्तर विशेषणज्ञानादिमत्त्वादित्ययं रूपाभिन्न इति ज्ञानं भविष्यत्येव । वस्तुगत्या रूपत्वाभाववति' घटे रूपत्वप्रकारकज्ञानस्य जायमानत्वादियमेवान्यथाख्यातिः । यत्र च प्रभाकरेण ज्ञानद्वयं स्वीक्रियते-रजतस्य स्मरणं शुक्तश्चेदंतत्त्वेन रूपेणानुभव इति ग्रहणस्मरणात्मकं ज्ञानद्वयमिति गौरवम्। लाघवादेकमेव स्वीकार्यम् । तेन समं रजतेन सह सन्निकर्षो ज्ञानमेवेत्युक्तम् [इत्यन्यथाख्यातिः ।] स्पर्शवानिति-स्थितिस्थापकस्तु स्पर्शवान्यकश्चित् मूर्तद्रव्यविशेषस्तत्र वर्तते इत्यर्थः । 'अनन्त इति नियमेन सर्वशरीरेषु स्थितिस्थापकसत्त्वादित्यर्थः । 'इति श्री गोवर्धनटिप्पणे गुणप्रकरणं सम्पूर्णम् ॥ [१९] अर्थप्रकरणे कर्मनिरूपणम् ॥ कर्मत्वेति अन्यथा चलनशब्देन यदि गमनं तदा कर्मलक्षणमिदं सर्वकर्मस्वव्याप्तम् । अत आह कर्मत्वाक्रान्तमित्यर्थः । ७भाष्यकारेण तु लक्षणमिदं कृतम् संयोगविभागयोरनपेक्षकारणं कर्म । यदि संयोगकारणं कर्म [इ]त्युच्यते तदा संयोगेऽतिव्याप्तिः । तेनापि संयोगजसंयोगजननात् । अत उच्यते विभागेति । यदि विभागमात्रं कारणमुच्यते तदा विभागेऽतिव्याप्तिः । अत उक्तं संयोगेति । तता चोभयकारणं कर्मैव। अनपेक्षपदं द्रव्येऽतिव्याप्तिवारणार्थम्, द्रव्यस्यापि संयोगविभागकारणत्वात् । अत उक्तमनपेक्षेति। तथा च द्रव्येण यदा संयोगविभागौ जन्येते तदा कर्मसंयोगापक्षयैव जन्येते इत्यर्थः । ननु कर्मणा यदा संयोगो जन्यते तदाऽन्यापेक्षयैव क्रियते । यथा प्रथमतो घटादौ कर्म उत्पद्यते। तदव्यवहितोत्तरक्षण एव संयोगो नोत्पद्यते । किन्तु विभागपूर्वसंयोगध्वंसद्वारा एवोत्तरदेशसंयोगे जननीये विभागपूर्वसंयोगध्वंसयोरपेक्षा क्रियते इत्यसम्भव इति चेत्, न । अनपेक्षत्वं नाम स्वाधिकरणकालध्वंसाधिकरणक्षणोत्पत्तिकभावानपेक्षत्वे सति संयोगविभागयोः कारणं कर्मेति लक्षणम् । अस्यार्थो यथा स्वपदेन लक्ष्यत्वेनाभिमतं कर्म ग्राह्यम् । तदधिकरणं यो कालस्तद्ध्वंसाधिकरणीभूतो यः 'क्षणस्तत्रोत्पतिर्यस्य भावस्य तदनपेक्षत्वे सति संयोगविभागकारणत्वम् । ततः च यदा कर्मणा संयोगविभागौ जन्येते तदा कर्माधिकरणकाल १. B विशेषज्ञान.. २. B त्वभाव इति. ३. B शुक्तौ चेदं. ४. B -नुभवति ग्रह. ५. It is अन्तत in त. भा. प्र. ६. B इति गुणप्रकरणं समाप्तम् । ७. It should be सूत्रकारेण because in वै.स. १.१.१७ it is -एक द्रव्यमगणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् । It seems that गुणरत्न has citied this लक्षण from memory as it is incomplete and slightly changed. ८. B -त्पत्तिकभावानपेक्ष्य तटनपेक्षत्वे. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306