Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 257
________________ २१६ तर्कतरङ्गिणी अन्त्यशब्दनाशाव्यवहितपूर्वक्षणेऽसन्-अविद्यमानत्वात्-इति साध्यम्। हेतुमाह द्वितीयक्षणेति । द्विक्षणमात्रावस्थायी भवत्युपान्त्यशब्दः । तत्र तदधिको यश्चतुर्थक्षणे जायमानत्वादित्यर्थः । सत्यन्तं च व्यभिचारवारणार्थम् । घटादौ हेतुरस्ति, साध्यं नास्तीति । तद्वारणाय सत्यन्तम् । तथा चानेनानुमानेन पूर्वोक्तहेतुः । तदव्यवहितपूर्वक्षणेऽसिद्धरूपो हेतुः सिद्धः कृत इति । तदनन्तरं तेन हेतुनोपान्त्यशब्देऽन्त्यशब्दनाशजनकत्वाभावः साधनीय इति । तस्मादुपान्त्यशब्दनाशेनैवान्त्यशब्दनाशो जन्यते इति सिद्धान्तः । अलौकिकेति तथा चात्मनि योगजधर्मलक्षणाप्रत्यासत्त्या प्रत्यक्षत्वं वर्तते, इत्यात्मनि व्यभिचारवारणायास्मदादीति । संपातायातमिति । कस्यचिदित्येतस्य पदार्थस्य प्राप्तिरर्थादेव भविष्यति । अन्यथा परमाणुषु प्रत्यक्षत्वं यदा सिध्यति तदा कस्यचिदित्येव ग्रहणम् । स्पष्टार्थंसामान्येति - सर्वेषां परमाणवः सामान्यलक्षणप्रत्यासत्त्या द्रव्यत्वरूपया । अथवा ज्ञानमनुमित्यादि ज्ञानसन्निकर्षेणास्मदादीनामपि अप्रत्यक्षा सन्त्येवेति । तदन्यत्वं प्रत्यक्षविशेषणं वाच्यम् । ताभ्यां ज्ञानलक्षणसाध्यसामान्यलक्षणाभ्यामर्थान्तराता सिद्धसाधनमित्यर्थः । (१५) बुद्धिः । बुद्धिमाह अर्थेति-अर्थविषयकत्वमित्यर्थः । इदमिच्छायामतिव्याप्तम् । यदि तद्वारणायार्थ विषयकत्वं बुद्धित्वं विशेषणम्, तदा लाघवात् बुद्धित्वमेव बुद्धेर्लक्षणं वाच्यमित्येवं मनसि कृत्वाऽऽह बुद्धित्वमिति । (१६-१७) धर्माधौं । आद्यमिति ज्ञानादीति । योगिना तत्त्वज्ञानानन्तरं भोगार्थ कार्यव्यूहो यदा क्रियते तदा तत्त्वज्ञानेनैव यावन्त्येव शरीराणि जन्यन्ते इत्यर्थः । ननु धर्माधर्मावतीन्द्रियौ, शरीरजनकत्वेन किमर्थं स्वीकर्तव्यौ, भावनयैव शरीरोत्पत्तिर्भविष्यतीत्यत आह-भावनयेति-स्मृतिजन्यसंस्कारविशेषस्येत्यर्थः । स च स्मृत्यन्यथानुपपत्त्याऽऽत्मनि कल्प्यते । तेन च स्मृतिमात्रमेव जननीयमिति शरीरजनकत्वं कल्प्यते । न प्रमाणाभाव इत्यर्थः । एकत्वेति तथा चात्मैकत्वादिना सामान्यगुणेन सिद्धसाधनता स्यात्, तद्वरणाय विशेषपदम् । अस्मदादिपदं चेश्वरज्ञानमादाय सिद्धसाधनतावरणाय । (१८) संस्कारः । सदृशादृष्टेति - एते स्मृतिबीजस्य संस्कारस्योद्बोधकाः एतान्हि प्राप्य संस्कारः स्मृति जनयति । तानाह सदृशेति सदृशं सादृश्यपदार्थः । अदृष्टं धर्माधर्मों चिन्ताधीतवेदार्थस्य विशेषस्मृतिः चिन्तया भवति । तत्र "स्मृतिबीजस्य चिन्ता संस्कारोबोधिका । सादृश्यज्ञानानन्तरं गोसदृशो गवय इति १. B सिद्धम् । २. B -ऽसत्त्वरूपो ३. B omits यदा. ४. B omits अपि, ५. B अप्रत्यक्षाः. ६. B -वेदस्य. ७. B omits स्मृतिबीजस्य. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306