Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 256
________________ तर्कतरङ्गिणी २१५ तस्य क्षणिकत्वम् । न चेष्टापत्तिः । अपसिद्धान्तात् । तथा च सुन्दोपसुन्दन्यायो न युक्तः । तस्मादिति मूलम्-उपान्त्यशब्दस्य यो नाशस्तेन तस्य नाशः क्रियते । तेनान्त्यस्योपान्तशब्दोत्पत्त्यपेक्षया चतुर्थक्षणेऽन्त्यस्य नाशः तृतीयक्षणे उपान्त्यशब्दस्य नाश उत्पद्यते । तदानीमन्त्यशब्दस्य नाशो न जन्यते । कारणाभावात् । पूर्ववर्तिन एव कारणत्वात् । प्रथमक्षणे उपान्त्यस्यान्त्यशब्दस्योत्पत्तिः । द्वितीयक्षणे उपान्त्यस्य स्थितिः । तृतीयक्षणे उपान्त्यशब्दस्य नाशः। चतुर्थक्षणे चान्त्यनाशः । तथा च चतुर्थक्षणाव्यवहितपूर्वक्षणे उपान्त्यस्याविद्यमानत्वादुपान्त्यस्यान्त्यशब्दनाशं प्राप्ति कारणत्वं न सम्भवतीत्यर्थः । एतदेवाह-अन्वयस्त्विति'-उपान्त्यशब्दोत्पत्त्यपेक्षया द्वितीयक्षणेऽन्त्यशब्दोत्पत्ति:२ । तदपेक्षया तृतीयक्षणावस्थायित्वमन्त्यस्य । 'तदान्त्यशब्दोत्पत्तिक्षणापेक्षया द्वितीयक्षणानुगामित्वमुपान्त्यस्यास्ति । तृतीयक्षणेऽन्त्यशब्दोत्पत्तिक्षणापेक्षया तृतीयक्षणेऽवर्तमानेनान्त्यशब्देन कथमन्त्यस्य नाशो जननीयः ? तस्मादुपान्त्यनाशादेवान्त्यनाश इति सुस्थम् । अनुमानमुक्तार्थमेव । व्यतिरेक्यनुमानमन्वयि वा प्रथमशब्दो वा दृष्टान्तः । हेतौ तच्छब्देनोपान्त्यशब्दो ग्राह्यः । तथा चान्त्यस्य शब्दनाशव्यवहितपूर्वक्षणेउपान्त्यस्य व्यवहितपूर्वक्षणे उपान्त्यस्य शब्दत्वादित्यर्थः । हेतावसिद्धमनुमानेन निराकरोति-तत्रेति केनापि प्रतिवादिना वाच्यम् । तदानीमन्त्यशब्दनाशापेक्षयाऽव्यवहितपूर्वक्षणे उपान्त्यस्य, शब्दस्तिष्ठत्येवेति स्वरूपासिद्धिरिति वक्तव्या । तन्निराकरणं स्पष्टयति । तथा च तत्रेत्यस्य व्याख्यातम् । अन्त्यनाशाव्यवहितपूर्वक्षणे उपान्त्यशब्दोऽसन्निति साध्यम् । उपान्त्यः शब्दः इति पक्षः । हेतुमाह त्रिक्षणेति यथोपान्त्यशब्दस्त्रिक्षणावस्थायी भवति, तदवधिकोऽन्त्यशब्दनाशावधिकं पञ्चमे क्षणे उपान्त्यशब्दस्योत्पत्तेर्जायमानत्वात् । तथा चान्त्यशब्दनाशापेक्षया प्राक् पञ्चमे क्षणे यधुपान्त्यस्योत्पत्तिस्तदोपान्त्यस्य तृतीयत्रिक्षणावस्थायित्वतृत्तीयक्षणे तस्य नाशो भविष्यति । ततः पञ्चमे क्षणेऽन्त्यशब्दनाशः । तेनान्त्यशब्दनाशापेक्षयाऽव्यवहितपूर्वक्षणे-चतुर्थक्षणे उपान्त्यस्यासत्त्वमेव । तथा च हेतुरनुमानेन सिद्धः कृतः । तदनन्तरं पूर्वोक्तानुमानेनोपान्त्यशब्दस्यान्त्यनाशजनकत्वाभावः साधितः । ननु भवतोक्तम्-अन्त्यशब्दनाशक्षणापेक्षया पञ्चमक्षणे उपान्त्यशब्दस्योत्पत्तिः, तच्च न सम्भवति । यथा प्रथमक्षणे उपान्त्यस्योत्पत्तिः, द्वितीयक्षणे उपान्त्यस्य स्थितिरन्त्यस्य चोत्पत्तिः, तृतीयक्षणे उपान्त्यस्य नाशोऽन्त्यस्य च स्थितिः, चतुर्थक्षणेऽन्त्यनाशः । तथा चान्त्यनाशक्षणापेक्षया प्राक् पञ्चमक्षणे उपान्त्यशब्दस्य जायमानत्वं यो हेतुः 'उक्तः, स च स्वरूपासिद्धौ वृत्तः इति । अत आह-द्वितीयक्षणेति तथा चोपान्त्यशब्दस्तत्रासन् । कोऽर्थः ? १. B अन्वयस्थितिः. २. B -शब्दस्योत्पत्तिः. ३. B तदन्त्य. ४. B शब्दसाध्यम् । ५. B कृत. ६. B द्विक्षणेति. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306