Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 255
________________ २१४ तर्कतरङ्गिणी भिन्नमेव ज्ञानं तदिति । तत्समाधीयते-व्यभिचारादेवानेकात्मसु एकविषयकमेकं ज्ञानं न स्वीक्रियते । तथाहि ज्ञानस्थले कार्यकारणभावस्तु विशेषत एव ग्राह्यः । अन्यथा चैत्रीयात्ममनः संयोगे विद्यमाने मैत्रीयात्मनि ज्ञानं' स्यात् । न चैवम् । तस्मात् चैत्रीयात्ममनः संयोगत्वेन चैत्रीयज्ञानत्वेन च कार्याकरणभाव एव । तथा च यात्रात्मनि चैत्रीयात्ममनः संयोगस्तिष्ठति तत्रैव चैत्रीयज्ञानं तिष्ठति । यदि चैत्रीयात्ममैत्रीयात्मनोरेकमेव ज्ञानमुत्पद्यते तदा मैत्रीयज्ञानमेव चैत्रीयात्मज्ञानं जातम् । 'तथा च व्यभिचारः । चैत्रीयात्ममनः संयोगव्यतिरिक्तस्थलेऽपि मैत्रीयात्मनि ज्ञानोत्पत्तेः भिन्नमेव ज्ञानं स्वीकर्तव्यम् । अयमाशय इति द्वयोरपि "उपान्त्यान्त्यशब्दयोः क्षणमात्रावस्थायित्वम्, तच्च वक्तव्यम् । तथा च यदा कर्मवदिति दृष्टान्तो दीयते तदा क्षणत्रयावस्थायित्वम् । यदा च ज्ञानवदित्युच्यते तदा द्विक्षणावस्थायित्वं शब्दस्य । तथा चोपन्त्यशब्दोऽन्त्यशब्दस्य नाशको भवतीत्युक्तं मूलकारण; न सम्भवतीत्युच्यते टीकाकृता । तथाहि प्रथम उपान्त्यशब्दस्योत्पत्ति पूर्वन्यायेन जाता । द्वितीयक्षणे उपान्त्यशब्दस्य स्थितिः । तृतीयक्षणेऽन्त्यशब्दस्योत्पत्तिः । तस्मिन्नेव क्षणे उपान्त्यशब्दस्य नाशः । पुनरूपान्त्यक्षणापेक्षया चतुर्थक्षणेऽन्त्यस्य स्थितिः । पञ्चमक्षणेऽन्त्यशब्दस्य नाशः । तदानीमुपान्त्यशब्दस्याभावात् कथमन्त्यशब्दनाशकत्वम् ? 'उपान्त्यशब्दस्य यदि च पूर्ववर्तित्व मात्रेणैवान्त्यशब्दनाशकत्वमुच्यते, तदा प्रथमादिशब्दानामपि तन्नाशकत्वं स्यात् । इदमितिउपान्त्यशब्दोत्पत्त्यपेक्षया पञ्चमे क्षणे इत्यन्तशब्दस्य नाशो भवतीतीदं पदस्यार्थः । क्षणद्वयावस्थायित्वपक्षे इति । प्रथमतः प्रथमे क्षणे उपान्त्यशब्दस्योत्पत्तिः, द्वितीयक्षणे उपान्त्यशब्दस्य स्थितिः, तृतीयक्षणे उपान्त्यशब्दस्य नाशोऽन्त्यस्य स्थितिः, चतुर्थक्षणे चान्त्यनाशः । तथा च चतुर्थक्षणे उपान्त्यस्याव्यवहितपूर्ववर्तित्वाभावात् कथमुपान्त्यस्यान्त्यशब्दनाशकत्वमिति; न सम्भवतीति दूषितम् । न चेति -यदि सुन्दोपसुन्दन्यायेनान्त्योपान्तययो शस्तदाऽन्त्यशब्दस्य क्षणिकत्वापत्तिः । यथोपान्तस्योत्पत्तिक्षणः प्रथमः, द्वितीय क्षणे उपान्त्यस्य स्थितिक्षणः, तृतीयेनोपान्त्यनाशोऽन्त्यशब्देन क्रियते । यदुपान्त्येनान्त्यनाशः क्रियते । अन्त्यशब्दनाशं प्रत्युपान्त्यशब्दः कारणं भवति । उपान्त्यिस्थितिक्षणेऽन्त्यस्योत्पत्तिक्षणः । स एवान्त्यशब्द उपान्त्यस्य नाशकः । तथा च नाशके विद्यमाने तृतीयक्षणे उपान्त्यनाशः । तृतीयक्षणे एवान्त्यशब्दस्य नाशः । तत्रोपान्त्यशब्दस्य तदव्यवहितपूर्वक्षणे विद्यमानत्वात् । तथा च तृतीयक्षणे एवान्त्यस्यापि नाशत्वात् । तस्य क्षीणत्वात् १. B विद्यमानं स्यात्. । २. B जातमिति । ३. B अयमाशयति. ४. B उपान्तशब्द.. ५. B उपान्तशब्दस्य. ६. A omits क्षीणत्वात् Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306