Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 258
________________ तर्कतरङ्गिणी २१७ गोज्ञाने गवयस्य स्मृति र्भवति । तत्र सादृश्यज्ञानं संस्कारोद्बोधकमदृष्टस्य । यथा बालस्य स्तनपानादावदृष्टसाधनता स्मरणम् । चिन्ता चाधीतवेदार्थानुध्यानरूपा विस्मृतार्थ हेतुः । आदिशब्दादीश्वरेच्छादयः । ( C ) अन्यथाख्यातिः । स्मृतिरप्रमैव । तस्यां स्मृतिव्यतिरिक्तत्वाभावात् । तथा च ज्ञानं द्विविधं भवतिप्रमारूपमप्रमा[रूपं]चेति । 'अप्रमा चान्यथाख्यातिः । यथा शुक्तौ रजतज्ञानम् । नन्वन्यथाख्यातौ च प्रमाणं नास्ति । विपर्ययज्ञानकारणाभावात् । तथाहि शुक्तौ तादात्म्यसम्बन्धेन रजतस्य भानं जायते । तदात्मना स्वरूपसमवायसम्बन्धेन रजतत्वस्य ज्ञानं जायते तन्न सम्भवति । रजतत्वाभ्यां समं सन्निकर्षाभावात् । तदात्मन स्वरूपसमवायसम्बन्धेन रजतत्वस्य ज्ञानं जायते । प्रत्यक्षज्ञाने 'चासन्निकृष्टं च किमपि न भासते । अन्यथाऽतिप्रसङ्गः स्यात् । विशिष्टज्ञानसामग्रीपूर्वं विशेष्यमिन्द्रियसन्निकर्षः, तदनन्तरं विशेषणज्ञानम्, तदनन्तरं विशेषणस्य विशेषणसममसंसर्गाग्रहस्ततो विशिष्टबुद्धिरिति । अत्र तु विशेष्येन्द्रियसन्निकर्षाभावाद्विशिष्टज्ञानं न सम्भवति । सामग्रीमध्येऽसंसर्गाग्रहोऽवश्यं वाच्य एव । अन्यथा यदा च विशेषणज्ञानं वर्तते [तदा] विशेषेन्द्रियसन्निकर्षोऽपि स्थलान्तरे वर्तते । अथ च तस्य विशेषस्य घटादेः सम्बन्धाभावग्रहो `जात:, यथाऽत्र घटो नास्तीतिरूपः, तत्र घटोऽयमिति विशिष्टबुद्धिर्न जायते । असंसर्गाग्रहस्य प्रतिबन्धकत्वात् । ततोऽसंसर्गाग्रहोऽप्यवश्यमपेक्ष्यते इति नान्यथाख्यातिरिति चेत्, न । यत्र चैकत्र भूतले रजतशुक्ती तिष्ठतः, तत्र रजतशुक्तीभ्यामुभाभ्यां 'सन्निकर्षसत्त्वात् रजतत्वज्ञानं यत्र विद्यते, तदनन्तरं शुक्तौ रजतत्वस्य रजतस्यवाऽसंसर्गाग्रहो वर्तते यत्र रजतसम्बन्धाभावज्ञानं न जातं तत्र शुक्तौ 'इदं रजतमिति बुद्धिर्भवत्येव । विशिष्टज्ञानसामग्रीसत्त्वात् । तथा च शुक्तौ अवर्तमानं रजतत्वं समवायसम्बन्धेन भासते, तादात्म्यसम्बन्धेन वाऽयमेव भ्रमः । सामग्रीसत्त्वे विशिष्टज्ञानरूपं कार्यं न भवतीति ब्रह्मणापि वक्तुमशक्यम् । न च यत्र शुक्तिरेवास्ति रजतेन समं सन्निकर्षो नास्ति तत्र कथं विशिष्टबुद्धिरिति वाच्यम् । तत्र माऽभूत् । परमन्यथाख्यातिः पूर्वोक्तस्थलविशेषे सिद्धाऽत अत्रापि कल्प्यते । न चात्र सन्निकर्षाभावात् कथं विशिष्टबुद्धिरिति वाच्यम् । तत्र ज्ञानलक्षणाऽलौकिकी प्रत्यासत्तिरेव सन्निकर्ष इति शिरोमणयः । वस्तुतस्तु अयं घट इत्यत्रैवान्यथाख्यातिः सिध्यति । यदा घटे रूपत्वस्यासंसर्गाग्रहो वर्तते, रूपस्य वा, यथा घटरूपं घटभिन्नमिति ज्ञानं न जातम्, तदा प्रतिबन्धकाभावसत्त्वात् १. B वेति । २. B चासंस्कृष्टं. ३. B जायते. ४. B सन्निकर्षभावात् न तत्त्वज्ञानं विद्यते ५. Bomits the reading between रजतमिति....शुक्तौ ६ B प्रतिबन्धकं भावसत्त्वात्. तर्क. - २८ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306