Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 244
________________ तर्कतरङ्गिणी २०३ द्वित्वसङ्ख्यायां नास्तीति । मिलितस्येति । यद्येकत्वादिसमूहालम्बनादिव्यवहारः हेतुत्वं क्रियते तदा प्रत्येकं नास्तीति संभव इत्यर्थः । तथा च यद्येकत्वादिव्यवहारहेतुत्वमात्रं लक्षणं क्रियते तदा व्यवहारविषयीभूते एकत्वादावतिव्याप्तिः । तद्वारणार्थं सङ्ख्यात्वघटितमिदं लक्षणं टीकाकारेण कृतमिति भावः । वस्तुतस्तु तदपि लक्षणं न सम्भवति । तस्य लक्षणतावच्छेदकत्वात् । सङ्ख्यायाः लक्षणत्वेन सङ्ख्यात्वस्य च लक्ष(क्ष्य) तावच्छेदकत्वात् । सङ्ख्यात्वस्यैव लक्षणेन कृतत्वात् । तथा चेदं लक्षणं बोध्यं । व्यासज्यवृत्तिवृत्तित्वे सति अव्यासज्यवृत्तित्वे सति च पृथक्त्वान्यगुणत्वव्याप्यजातिमत्त्वम् । अस्यार्थों यथा-व्यासज्यं नाम यदनेकवृत्तिधर्मः, एकपदार्थे यस्य समाप्तिर्नास्ति । यथा द्वित्वादिकम् । व्यासज्यवृत्तिधर्मो द्वित्वादिरूपो वृत्तः । तद्वृत्तित्वे सति । अव्यासज्यवृत्तिः यो धर्म एकत्वरूपो, तद्वृत्तिर्यो धर्म:, स ( ? ) वृत्ति: (तद्वृत्तित्वं) पृथक्त्वे न वर्तते । एतादृशी या गुणत्वव्याप्या जातिस्तद्वत्त्वमेव । सङ्ख्यालक्षणपदकृत्यं यथा - प्रथमसत्यन्तं च द्वित्त्वादावव्याप्तिवारणार्थम् । द्वितीयं सत्यन्तं चैकात्वाव्याप्तिवारणार्थम् । तत्र व्यासज्यवृत्तिवृत्तिर्भवति । द्वित्वत्वं तत्त्वे सति पृथक्त्वान्यगुणत्वव्याप्यजाति र्भवति द्वित्वत्वरूपा । तद्वत्वमेकत्वे नास्तीत्यव्याप्ति स्तद्वारणार्थं च द्वितीयसत्यन्तपदेन (दम्) । द्वित्वं चाव्यासज्यवृत्तिधर्मो न भवति । पृथक्त्वे [s] तिव्याप्तिवारणार्थं पृथक्त्वान्यपदम् । गुणत्वमादाय गुणमात्रेऽतिव्याप्तिवारणार्थं व्याप्यपदम् । ननु सङ्ख्यायाः द्रव्यातिरिक्तत्वे किं प्रमाणम् सङ्ख्या नास्त्येव एकत्वादिप्रत्ययस्य घटादिस्वरूपनिबन्धनत्वात् 'एको घट' इति प्रतीतिविषयस्तु घट एव नातिरिक्तः एकत्वरूपो गुण इति चेत् न । घटव्यक्तेस्तत्प्रयोगजकत्वे घटयन्तरे तत्प्रत्ययाभावप्रसङ्गात् । एतद्घटविषयत्वेन प्रतीतिः । घटयन्तरे तदनुदयात् । न च घटत्वविषयिणीयं प्रतीतिरिति वाच्यम् । घटत्वस्य तत्प्रयोजकत्वे पटादावेकत्वाभावप्रसङ्गात् । न चायं प्रत्ययो भ्रान्त इति वाच्यम् । बाधकाभावात् । तथा च नित्यत्वापेक्षायां सङ्ख्यैव निमित्तम् । द्रव्यातिरिक्ते गुणः सिद्धः प्रयोजकत्वे । नन्वेकत्वं जातिरेवाप्यस्तु द्रव्यमात्रनिष्ठा । भवति 'हीदमेकमिदमेकमित्यनुगतप्रत्यय एकत्वस्य । गुणत्वेऽयमेकोऽयमेक इत्यनुगतधर्मेण गुणेनानुगता प्रतीतिरेव न स्यादिति चेत् न, द्रव्यत्वान्यूनातिरिक्तवृत्तिः सा वाच्या, द्रव्यमात्रे तथा प्रत्ययात् । तथा च द्रव्यत्वाधिकरणातिरिक्ते पदार्थे सा नास्ति । द्रव्यत्वापेक्षया न्यूनेऽपि नास्ति । ततो द्रव्यत्वमेवैकत्वमिति वृत्तिः । कलशत्वघटत्वादिवत्। अन्यूनानतिरिक्तवृत्तिजातिर्नाङ्गीक्रियते । तथा च यदि जातिस्तदा द्रव्यत्वाद्यतिरिक्ता नास्तीति । अथ द्वित्वसङ्ख्याऽनित्यैव । तस्याः अपेक्षाबुद्धिजन्यत्वादित्याह - इदमिति मूलम् । १. A हीदमेवमित्यनु. २. A वृत्तः । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306