Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 247
________________ तर्कतरङ्गिणी व्यवहारपदनिर्वचनेन लक्षणं दूषयति- व्यवहारेति - यदि व्यवहारपदेन शब्दग्राह्यो प्रयोगो गृह्यते तदाऽसम्भवः शब्दस्तु व्यवहर्तव्यः । यो पदार्थों प्रकृते परिमाणरूप:, तेन न जन्यत इति । यदि व्यवहारपदेन मानविषयकं प्रत्यक्षज्ञानम्, तदाऽतीन्द्रियपरिमाणेऽतिव्यातिः । तद्वारणार्थं टीकाकृता व्याख्यातं परिमाणजातिमदित्यर्थ इति भावः । ननु परिमाणत्वजातिसिद्धौ किं प्रमाणमिति चेत्, न । अनुगतप्रत्यक्षमेव । यद्युच्यते इदं प्रत्यक्षप्रमाणमतीन्द्रियपरिमाणसाधारणं न भवतीति तदाऽनुमानमेव वाच्यम् । यथा ‘महत्परिमाणं महापरिमाणासमानाधिकरणगुणवृत्तिगुणत्वव्याप्यजातिमत्, मूर्तगुणत्वात्, रूपवत्।' महापरिमाणेन सहासमानाधिकरणा या गुणवृत्तिः गुणत्वव्याप्या जातिः तद्वत्त्वं साध्यम् पक्षधर्मताबलात्परिमाणत्वं जातिः सिध्यति । मूर्तपदं च ज्ञानादौ व्यभिचारवारणाय हेतोः । अन्यथा गुणत्वं वर्तते ज्ञाने । तत्र महेत्यादि साध्यं नास्ति । महापरिमाणाधिकरणे आत्मनि ज्ञानस्य सत्त्वेन व्यभिचारः स्यात् । तत्र ज्ञाने साध्याभावात् । २०६ प्रशिथिलेतीति । कार्यद्रव्यासमवायिकारणीभूतो यः संयोगस्तत्र प्रशिथिलत्वं नाम संयोगत्वव्याप्यो जातिविशेष:, येन संयोगविशेषेण स्थूलोऽवयवव्युत्पद्यत इत्यर्थः । (७) पृथक्त्वम् । पृथग्त्वव्यवहारे' हेतुरिति मूलम् । ननु कालेऽतिव्याप्तिः, तस्यापि जन्यमात्रकारणत्वादिति चेत्, न । अवधिव्यङ्ग्यत्वे सत्येकमात्रवृत्ति वृत्त्यनेकवृत्तिवृत्तिगुणत्वजातिमत्त्वं पृथक्त्वम् । यथा घटात्पटः पृथगित्यत्र घटो भवत्यवधिः । एवं सर्वत्र पञ्चम्यन्तं पदम् । पृथक्त्वपदं समभिव्याहरेण पञ्चम्यन्तं पदार्थोऽवधिः । तथा चावधिव्यङ्ग्यत्वे सति एकमात्रे वर्तते यो गुणः तद्वृत्तित्वे च सति या गुणत्वव्याप्या जातिः, तद्वृत्तित्वमित्यर्थः । आद्यं सत्यन्तं द्वित्वादिसङ्ख्यायामतिव्याप्तिवारणार्थम् । तत्राप्येकमात्रवृत्ति गुणे भवत्येकत्वम्, तद्वृत्तिर्भवति सङ्ख्यात्वम् सैवानेकवृत्तिवृत्तिर्भवति । यतोऽनेकपदार्थवृत्तिर्भवति द्वित्वातद्वृत्तिर्दित्वाद भवति सङ्ख्यात्वम् । सैव च गुणव्याप्या जातिर्भवति । तद्वत्त्वं द्वित्वादावस्ति । तद्वारणार्थमवधिव्यङ्ग्यत्वपदम् । द्वित्वैकत्वादीनामवधिव्यङ्गत्वं नास्ति । एकमात्र वृत्ति पदादाने एकपृथक्त्वेऽव्याप्तिः । यथाऽवधिव्यङ्ग्यत्वे सत्यनेकवृत्तिवृत्तिर्भवति गुणत्वव्याप्या जातिः द्विपृथक्त्वम् तद्वत्त्वं चैकपृथक्त्वे नास्तीति । तद्वारणार्थकमेकमात्रवृत्तिवृत्तिपदम् द्विपृथक्त्वं चैकमात्रवृत्ति न भवतीति तत्र नाव्याप्तिः । अनेकवृत्तिवृत्तिपदं च द्वित्वपृथक्त्वेऽतिव्याप्तिवारणार्थम्। अत्राप्यवधिव्यञ्यत्वे सति एकमात्रवृत्तिवृत्तिर्या गुणत्वव्याप्या जातिरेकपृथक्त्वम् । तद्वक्त्कंव द्विपृथक्त्वे नास्तीत्यव्यासि: । अत उक्तमनेकवृत्तिवृत्तिपदम् । एकपृथक्त्वस्य यद्यप्येकमात्रवृत्तिवृत्तित्वं वर्तते, १. B It is पृथग्व्यवहारासाधा.. in त. भा. प्र. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306