Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 240
________________ तर्कतरङ्गिणी जातिः, तद्वत्त्वमादाय सर्वत्र लक्ष्ये लक्षणगमनात् । मात्रेति । यदि मात्रपदं न दीयते तदा त्वगिन्द्रियेण यथा स्पर्शत्वं गृह्यते तथा गुणत्वमपीति मात्रपददानम् । न च स्पर्शस्यापि मनोग्राह्यत्वेन त्वज्मात्रग्राह्यत्वमसिद्धमिति वाच्यम् । त्वगिन्द्रियकरणकसाक्षात्कारविषयविशेषगुणः(ण)वृत्तिस्त्रेहद्रवत्वावृत्तिजातिमत्त्वस्य विवक्षित्वात् । त्वगिन्द्रियं करणं यस्य, एतादृशो यः सः साक्षात्कारः तद्विषयीभूतो यो विशेषगुणः तद्वृत्ति र्या स्नेहद्रव्य(व)त्वावृत्तिर्जाति: तद्वत्त्वं स्पर्शत्वम् । स्नेहे द्रवत्वे चातिव्याप्तिवारणार्थं स्नेहद्रव्यत्वावृत्तिरिति पदम् । एकत्वादिवारणार्थ च विशेषगुणपदम् । रूपादिवारणार्थं त्वगिन्द्रियप्रकरणकपदम् । पृथिवी-उदकज्वलनपवनवृत्तिः । पार्थिवपरमाणुष्वनित्योऽन्यत्र नित्यः । अवयविनि कारणगुणपूर्वकः आश्रयनाश्यश्च । एतेषु गुणेषु प्रत्यक्षमेव प्रमाणम् । अतीन्द्रियरूपादौ च कार्यरूपादिकमेव प्रमाणमिति ज्ञेय[म्] । परमाणुस्पादीनामिति - तथा च परमाणुरूपे यद्यप्युद्भूतत्वं वर्तते तथापि महत्त्वं नास्ति। महत्त्वं चैकार्थसमवायसम्बन्धेन रूपप्रत्यक्षं प्रति कारणं बोध्यम् । चक्षुषः रूपे यद्यपि महत्त्वं वर्तते तथाप्युद्भूतत्वं नास्तीति न तत्प्रत्यक्षम् । सुवर्णरूपे तु यद्यप्येकार्थसमवायसम्बन्धेन महत्त्वमुद्भूतत्वमपि तिष्ठति, तथापि बलवत्सजातीय प्रतिबन्धकवशात्, न तत्प्रत्यक्षम् । प्रतिबन्धकाभावरूपस्य कारणस्यासत्त्वादित्यर्थः । (A) पाकजप्रक्रियानिरूपणम् । अथ प्रसङ्गात् पाकजप्रक्रिया निरूपिता । तत्रादौ परमाणुष्वेव पाकोत्पत्तिः, पीठरेऽपि वेति विचारः । तत्र विप्रतिपत्तिः । पार्थिवाः रूपरसगन्धस्पर्शा अग्निसंयोगजन्या न वा ? घोऽग्निसंयोगासमवायिकारणरूपवान् वाऽग्निसंयोगो घटसमवेतरूपादिजनको न वा? घटत्वमग्नि संयोगजन्यरूपसामानाधिकरण्यं न वेति विधिकोटिः ।। प्रथमविप्रतिपत्तौ [विधिकोटिः] वैशेषिकाणाम् । तैः परमाणुष्वेव हि पाकजरूपादिकं स्वीक्रियते । द्वयणुकादौ तु परमाणुरूपादिना रूपादिज्ञानजननात् । द्वितीयविप्रतिपत्तौ तु विधिकोटिनैयायिकानाम् । निषेधकोटि वैशेषिकाणाम् । नैयायिकैः घटेऽग्निसंयोगेन जन्यं यद्रूपं तद्वत्त्वं स्वीक्रियते । निषेधो वैशेषिकाणाम् । तत्र पाकेनाग्निसंयोगेनावयविष्वपि रूपादिकं जन्यते इति नैयायिकाः । तेन परमाणुष्वेव पाकजा रूपादयः इति वैशेषिकाः। तत्र नैयायिकानामयमाशयः-यथाऽऽवाहनिक्षिप्तानां घटादीनां पूर्वरूपाद्'विजातीयं रूपादिकमुपलभ्यते, तत्र पाकस्यैवान्वयव्यतिरेकाभ्यां कारणत्वं दृश्यते । १. A पूर्वरूपादिविजा.. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306