Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 238
________________ तर्कतरङ्गिणी १९७ रूपमुत्पादनीयम् । पीतमेव रूपमुत्पादनीयमिति चेत् न । परस्परविरोधेन नीलसामग्र्या एकत्रावयविनि नीलं रूपमुत्पादयितुं न शक्यते । तत्र पीतसामग्र्याः प्रतिबन्धकत्वात् । पीतरूपस्य चोत्पत्तौ नीलसामग्री प्रतिबन्धिका । ततः उभाभ्यां मिलित्वा एकत्रावयविनि चित्रं रूपमतिरिक्तमेवोत्पादनीयम् । तत्र च रूपद्वये 'ऽत्र चित्रः पटः' 'इत्यैकरूपविषयिणी प्रतीतिर्नस्यात् । न च विरुद्धाभ्यां तत्कथमुत्पादनीयमिति वाच्यम् । तदवयवानामपि चित्ररूपवत्त्वेन विरोधाभावात् परमाणुष्वपि चित्ररूपसत्त्वात् । अग्निसंयोगात्तत्र परमाणौ चित्ररूपमुत्पद्यते । तेन द्वयणुकादावपि चित्ररूपम् । न तु यत्र त्तौ नीलमेव रूपं यत्र च पीतमेव रूपं तत्र द्वाभ्यां मिलित्वा चित्रः पटो द्वितन्तुक: उत्पादितः । तत्रापिअवयवे-तन्तौ चित्ररूपं वर्तते एव कथं नोपलभ्यते ? प्रतिबन्धस्य तत्र कालादृष्टादिविशेषस्य सत्त्वात् । अत्ररूप एव नीलादिभागस्याधिक्यादिति नोपलम्भः । ___ न चावयविविरुद्धरूपस्थले नीलरूप एवेति "विरुद्धरूपप्रतीतिस्त्ववयवगतरूपाणामेव जायते इति वाच्यम् । तथा सत्यवयविनो चाक्षुषत्वं स्यात् । चाक्षुषत्वे च महत्त्वसमानाधिकरणोद्भूतरूपस्यैव नियामकत्वात् । न च तस्याश्रयाश्रितसम्बन्धेन द्रव्यचाक्षुष प्रत्युद्भूतरूपं कारणम्, तथा च प्रकृतेऽपि यद्यपि घटादौ रूपं नास्ति तथापि घटप्रत्यक्षं प्रति स्वाश्रयसमवेतं कपालादिरूपम्, तदेव चाक्षुषप्रत्यक्ष प्रति कारणमिति न चित्ररूपमतिरिक्तमायास्यतीति वाच्यम् । अवयविनः चाक्षुषत्वान्यथानुपपत्त्या चित्रं रूपं कल्पनीयमेव । न च स्वाश्रयाश्रितेत्यादि दूषणमिति वाच्यम् । तेन सम्बन्धेन द्रव्यचाक्षुषं प्रति कारणत्वे कल्प्यमाने गौरवापत्तिः । लाघवात् समवायसम्बन्धेनैव द्रव्यं चाक्षुषं प्रत्युद्भूतरूपं कारणम्। तथा चावयवी नीलरूपो न स्वीकर्तव्य इति । चित्ररूपमतिरिक्तं, प्रमाणं च 'चाक्षुषत्वान्यथानुपपत्तिरेव । ननु शुक्ल पट इत्यभेदप्रतीत्या रूपपटयोरभेदोऽस्त्वितति चेत् न । अन्धेनापि रूपग्रहणप्रसङ्गात। यतो भवतां मते रूपं पयतिरिक्तं नास्ति । पटस्त त्वचा गद्यत इति रूपानपलम्भवत द्रव्यानुपलम्भोपपत्तेश्च । नन्वधेन रूपं गृह्यत एव, रूपत्वशुक्लत्वादिकं परं न गृह्यत इति चेत्, न । यत्र व्यक्ती रूपादिका योग्या भवति तत्र रूपत्वादिजातिग्रहे प्रतिबन्धकाभावात् । किञ्च यदि 'शुक्लः पटः' इत्यभेदप्रतीतिः तदा-'शुक्लमानय-' इत्युक्तः सन् पटमानयेत्, ‘पटमानय'-इत्युक्तः किञ्चिच्छुक्लमानयेत् । अवयविनि सत्येव रूपोत्पादविनाशदर्शनात् विरुद्धधर्माध्यासादपि रूपरुपिभेदात्। यदा पीतं रूपं नष्टं नीलरूपमुत्पन्नं द्रव्ये सत्यपीदृशप्रतीतेश्चेति दिक् । (२) रसः । रसनेन्द्रियेति । यथाश्रुते मूलोक्तेऽगृहीत नष्टे रसेऽव्याप्तिवारणार्थं विवक्षा । यथा १. B इत्येकविष.. २. B om its च. ३. B विशेषसत्त्वात् । ४. B omits विरुद्ध. ५. B चाक्षुषं प्रति कारणत्वे कल्प्यमानेऽन्यथा.. JainEducation International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306