Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 237
________________ १९६ तर्कतरङ्गिणी गुणत्वम् । तद्भिन्नत्वं च घटत्वे तिष्ठति । तथा च पक्षधर्मताबलात् गुणत्वजातिसिद्धिः । न हि द्रव्यत्वमेव द्रव्यत्वभिन्नं सम्भवति । न 'चाप्रयोजकरूपम् । अनुकूलतर्कस्य सत्त्वात् । यदि च गुणत्वं जाति न स्यात्तदा संयोगविभागोभयसमवायिकारणत्वा-समवायिकारणत्वशून्ये सामान्यवति यत्कारणत्वम्, तदनुगतधर्मावच्छेद्यं न स्यात् । यथा संयोगविभागसमवायिकारणत्वशून्यं (न्यः) भवति संयोगोविभागश्च । यद्यप्यसमवायिकारणता वर्तते तथापि तत्र 'समवायिकारणताभावेनोभयत्वावच्छित्रप्रतियोगिताकाभावसत्त्वात् । तथा चोभयनिष्ठा या कारणता, सा गुणत्वजातिव्यतिरेकेण केन धर्मेणावच्छेद्या भविष्यति ? तथा चोक्तरूपानुकूलतर्कसत्त्वात् गुणत्वजातिः सिद्ध्यतीति । (१) रूपम् । __शङ्कते-नन्विति -अतीन्द्रिये परमाणुरूपादौ चक्षुर्मात्रग्राह्यत्वाभावादव्याप्तिः । तद्वारणार्थं विवक्षां करोति-चक्षुर्मात्रेति चक्षुर्मात्रग्राह्या या जाति: रूपत्वलक्षणा तद्वत्त्वं रूपलक्षणमिति नाव्याप्तिः । सम्भवाभिप्रायेणेति पृथिव्यां तु पाकजं रूपम् । तत्सम्भवाभिप्रायेण तत्सम्भवतीति कृत्वा यदा पूर्वं रूपं नश्यति, रूपान्तरमुत्पद्यते तदा पाकजमेव सम्भवतीति ज्ञेयम् ।। ननु रूपत्वं, जातिः किमर्थं स्वीकर्तव्या, चक्षुर्मात्रग्राह्यगुणत्वमेवोपाधिरस्त्विति चेत्, न । तदा रूपत्वस्यातीन्द्रियापत्तिः । तस्यातीन्द्रियचक्षुर्घटितत्वात् । उपाधिस्तु चक्षुर्घटितो जातः । तथा च चक्षुषोऽतीन्द्रियत्वे सर्वस्योपाधेरतीन्द्रियत्वं स्यात् । जात्यपेक्षयोपाधिगुरुत्वात् । सर्वजातिविप्लवापत्तिश्चेति । अतीन्द्रिये परमाणुरूपे त्वदुक्तोपाधेरसत्त्वादव्याप्ति:५ । ततः असौ जातिरेव रूपत्वमिति । तदेतद् शुक्लाद्यनेकप्रकारम् । पृथिव्युदकतेजोमात्रवृत्ति । पृथिवीपरमाणुष्वेव पाकजमिति वैशेषिकाः । द्वयणुकादौ तु वैः[-वैशेषिकैः] पाकजं रूपं न स्वीक्रियते कदाचित्परमाणुषु कदाचिदवयविन्यपि पाकजं रूपमिति नैयायिकाः इति । तथा च पार्थिवपरमाणुषु तेजःसंयोगादुत्पद्यते विनश्यति चेति पृथिव्यामनित्यमेव रूपम् । सलिलतेजः परमाणुषु रूपं नित्यमेव । द्वयणुकादिषु कारणरूपासमवायिकारणकम् । कपालादिरूपात घटादिरूपोत्पत्तिः । तत्साजात्योपलम्भात् क्वचिच्चित्रमप्यतिरिक्तं नीलपीतादिविजातीयमेवोत्पद्यते।। नन्वेकत्रावयवनीलाद्येकमेव रूपमेककालावच्छेदनम् द्वितीयावयवे च पीतरूपम्, तदेताभ्यामुभाभ्यां परस्परविरुद्धाभ्यामवयविन्येकं रूपं कथमुत्पादनीयम्, नीलसामग्र्या नीलमेव १. B -वाप्रयो.. २. B -कारणताभावेन सम्भवति । तथा-. ३. B नाव्याप्तिः सम्भवति । प्रायेणेति. ४. B omits च. ५. B -त्वान्नाव्याप्तिः । ६. B -च्छेदे तु द्वितीया.. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306