Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 228
________________ १८७ तर्कतरङ्गिणी इच्छालाघवमेव । तथाहि गुणस्थले समवायिकारणनाशत्वेन कारणता, तत्समवेतगुणत्वनाशत्वेन कार्यतेति कल्प्यमाने लाघवात् । समवायिकारणनाशत्वेन तत्समवतनाशत्वेन च कार्यकारणभाव इति लाघवम् । गुणद्रव्यादिपदं 'कार्यतादिशि न देयमेव । तत्समेवतपददानात् । तथा च समवायिकारणनाशेन 'तत्समवेतत्वेन द्रव्यगुणकर्माणां नाशः क्रियते एवेत्ययं कार्यकारणभावस्तु गुणादिनाशानुरोधेन कल्पनीय एव । यदि तेनैव कार्यकारणभावेन द्रव्यनाशोऽपि सम्भवति तदा द्रव्यनाशानुरोधेनासमवायिकारणनाशस्य तन्नाशजनकत्वं किमर्थं कल्पनीयम् ? नन्विति तथा च योऽसमवायिकारणनाशत्वेन द्रव्यनाशं स्वीकरोति स गुणनाशस्थले कार्यदिशि द्रव्येतरविशेषणं ददाति । यथा समवायिकारणनाशत्वेन कारणता, तत्समवेतद्रव्येतरजन्यगुणादिनाशत्वेन च कार्यता, तेन स्वीक्रियते । तथा सति गौरवम् । द्रव्येतरतत्समवेतजन्यनाशत्वं कार्यतावच्छेदकमपि न भवति । नीलेतरघटत्ववत् । तथा च समवायिकारणनाशत्वेन तत्समवेतजन्यनाशत्वेन कार्यकारणभाव एव स्वीकर्तव्य इति लाघवात् । अत्र कार्यकारणभावे "द्रव्यनाशस्यापि सङ्ग्रहो जात एव । तथा चान्यत्र गुणविनाशस्थले क्लृप्तकार्यकारणभावेनैव द्रव्यनाशस्थलेऽपि निर्वाह श्चेद्भवति, तदाऽसमवायिकारणनाशस्य द्रव्यनाशं प्रति कारणत्वं किमर्थं कल्पनीयमिति । अयं प्रघट्टः – गौरवं च तदा भवति यदा द्रव्यनाशानुरोधेनैव समवायिकारणनाशस्य कारणत्वं कल्प्यते । परमन्यत्र गुणनाशादिस्थले क्लृप्तो यः कार्यकारणभावो यथा समवायिकारणनाशत्वेन तत्समवेतजन्यनाशत्वेन च कार्यकारणताभाव इति क्लुप्तेनैव निर्वाहात् । द्रव्यनाशस्थलेऽपि स एव कार्यकारणभावः स्वीकर्तव्यः । लाघवात् । एतावता द्वयणुकादन्यत्र समवायिकारणनाशेनैव द्रव्यनाशः क्लृप्तकार्यकारणभावेनैव स्थापितः ।। ___साम्प्रतं तदुपरि च केनचिद् द्वयणुकनाशस्थले व्यभिचारो दत्तः । यथा समवायिकारणनाशव्यतिरेकेणापिद्वयणुकनाशसम्भवादिति । शङ्कते-द्वयोरिति तथा च द्वयोः समवायिकारणासमवायिकारणनाशयोः यदि द्रव्यनाशकत्वम्, तदाऽननुगमः व्यभिचार उक्तरूपो द्वयणुकस्थले इत्याशङ्कार्थः । उभयोः कारणत्वार्थानुगमं करोति-निमित्तकारणेतरेति । तथा चोभयनिष्ठं निमित्तकारणादितरकारणनाशत्वं कारणतावच्छेदकत्वं, द्रव्यनाशत्वं च कार्यतावच्छेदकम् । इदं द्रव्यनाशस्थले । गुणादिना[श]स्थले तु समवायिकारणनाशत्वं कारणतावच्छेदकं भिन्नम् । अभिन्न १. B कार्यतादिसमं. २. B तत्समवेतत्वद्रव्य.. ३. B कल्पनीयमेव । ४. B द्रव्यनाशेऽपि. ५. B शीघ्रतं. ६. B निमित्तकारणमिति. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306