Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 232
________________ तर्कतरङ्गिणी १९१ कारणत्वेनाकाशसिद्धिः । ननु शब्दः पृथिव्यादीनां गुणो भविष्यतीति चेत् न । तत्र परिशेष एव प्रमाणम् । यथा शब्दस्य गुणादौ प्रसक्तिरेव नास्त्यतः [त]त्र स न निषिध्यते । पृथिव्यादीनां च द्रव्यत्वात् । सगुणत्वेन शब्दस्यापि गुणत्वेन तत्र प्रसक्तिर्जाता । 'शब्दः पृथिव्यादीनां गुणो भविष्यतीति ।' तत्र परिशेषो - यथा 'शब्दो न पृथिवीगुणः, श्रोत्रग्राह्यत्वात् । व्यतिरेकी यो पृथिवीगुणः स श्रोत्रग्राह्यो न भवति, यथा पृथिवीरूपादिकम् ।' तथा च शब्दोऽऽत्मनोऽपि गुणो न भवति । तद्गुणत्वे मानसप्रत्यक्षत्वापत्तिः । कालादीनां च विशेषगुणत्वाभावान्न तद्गुणः । तथा परिशेषः शब्दोऽऽकाशवृत्तिः । आकाशेतरवृत्तित्वे सति वृत्तित्वादाकाशैकत्ववदिति । घटादाविति । अन्यथा घटादौ व्यभिचारः स्यात् । एकैन्द्रियग्राह्यत्वरूपो हेतुस्तत्र तिष्ठति । विशेषगुणत्वरूपं साध्यं नास्तीति । नन्वस्मदादीतिपदं किमर्थमुक्तम् ? अत आह अप्रसिद्धमिति तथा च योगिनां योगजधर्मसहकारेणादृष्टविशेष्यसहकारेण सर्वेन्द्रियैः सर्वं गृह्यते तथा शब्दोऽपि तैः चक्षुरादिना गृह्यत इति - एकेन्द्रियमात्रग्राह्यत्वमेव प्रसिद्धमित्यत उक्तमस्मदादीति । ज्ञानादिलक्षणयेति तथा च शब्दस्य कदाचिद[T]नुमानिकं ज्ञानं वृत्तम्, तदनन्तरं कालान्तरजन्यसंस्कारेण शब्दस्य स्मरणं जन्यते । तदा स्मरणसहकृतेन चक्षुषा शब्दप्रत्यक्षं ज्ञानं जायते । अथवा शब्दत्वसामान्यलक्षणप्रत्यासत्त्या चक्षुरादिनामपि शब्दज्ञानं जायते इति नेकेन्द्रियमात्रग्राह्यत्वमिति लौकिकपदमपि दातव्यमेव । अप्रत्यक्ष इति । अप्रत्यक्षसङ्ख्यादौ । तत्र हि द्वीन्द्रियग्रहणयोग्यताराहित्यं रूपादौ हेतुरस्ति । विशेषगुणत्वं नास्तीति व्यभिचार इत्यर्थः । बाह्येति । तथा चातीन्द्रियपदार्थे लौकिकप्रत्त्यासत्त्येन्द्रियग्राह्यत्वे सति द्वीन्द्रियग्रहणयोग्यताराहित्यादयं हेतुः कर्तव्यः । सत्त्यन्तमतीन्द्रियपदार्थे व्यभिचारवारणार्थम् । विशेष्यदलं चैकेन्द्रियगृहीतनिष्ठघटे व्यभिचारवारणार्थम् । इदानीमपि प्रभासङ्ख्यायां व्यभिचारो वृत्तः । तत्र लौकिकप्रत्यासत्त्येन्द्रियग्राह्यत्वे सति द्वीन्द्रियग्रहणयोग्यताराहित्यरूपो हेतुस्तिष्ठति । विशेषगुणत्वरूपं साध्यं नास्तीति व्यभिचारः । प्रभाया एकत्वस्य चक्षुरिन्द्रियमात्रग्राह्यत्वात् । एतद्वारयितुं विवक्षान्तरं करोति शब्दो विशेषगुण इति । तथा च प्रभासङ्ख्यायामेकत्वरूपायां न व्यभिचारः । यद्यपि प्रभैकत्वे लौकिकप्रत्यासत्त्येन्द्रियग्राह्यत्वे सति लौकिकप्रत्यासत्या द्वीन्द्रियग्रहणयोग्यताराहित्ये सति गुणत्वव्याप्यजातिमत्त्वरूपो हेतुस्तिष्ठति परं गुणत्वसाक्षाद्व्याप्यजातिमत्त्वं नास्तीति । तथा च गुणत्वसाक्षाद् व्याप्या जातिर्भवति सङ्ख्यात्वम् । तद्व्याप्या जातिर्भवत्येकत्वरूपा । अत्र हेतौ 'साक्षाद्' पदमपि देयमेव । प्रभात्वमिति अन्यथा प्रभायां व्यभिचारो भवति । तत्रापि लौकिकप्रत्यासत्त्येन्द्रियग्राह्यत्वे १. A omits च. २. B omits च. ३. B omits च. ४. B संस्कारे. ५. Bomits हि. ६. B इन्द्रिय ७. B omits अपि. ८. Bomits तथा च. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306