Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 225
________________ १८४ ॥ परमाणुवादः ॥ मूले क्रिययेति अस्मदाद्यदृष्टवदात्मसंयोगेनाभिघाताख्येन नोदनाख्येन वा परमाणुषु क्रिया जायते । तदनन्तरं तया क्रियया-कर्मणा परमाणोः पूर्वदेशविभागो जातः । तदनन्तरं तेन विभागेन पूर्वदेशसंयोगस्य नाशः कृतः । तदनन्तरं क्रियोत्पत्यपेक्षया चतुर्थक्षणे परमाण्वन्तरेण समं संयोगो जातः । तदनन्तरं पञ्चमक्षणे द्वयणुकोत्पत्तिर्जायते तदनन्तरमस्मदादयदृष्टवदात्मसंयोगेन द्वयणुके क्रियोत्पादिता । तया क्रियया पूर्वदेशविभागः कृतः । तदनन्तरं तेन विभागेन पूर्वदेशसंयोगनाशः कृतः। तदनन्तरं द्वयणुकान्तरेण सममेतद् द्वयणुकस्य संयोगो जातः । तदनन्तरं त्र्यणुकोत्पत्तिः । इत्येवं क्रमेणाग्रेऽपि । तर्कतरङ्गिणी ननु पूर्वदेशविभागानन्तरं उत्तरदेशेन समं संयोग एव कथं नोत्पद्यते, किमर्थं पूर्वसंयोगनाशोऽपेक्ष्यत इति चेत्, न । पूर्वदेशसंयोगस्योत्तरदेशसंयोगं प्रति प्रतिबन्धकत्वात् । तथा च प्रतिबन्धके विद्यमाने कथमुत्तरदेशे संयोगरूपकार्योत्पत्तिरिति पूर्वदेशसंयोगनाशोऽपेक्ष्यत इति । क्रियानाशकस्त्वत्रोत्तरदेशसंयोग एव । अत एव प्राचीनमते चतुर्थक्षणे क्रियानाश इति । एवं चतुरणुकाद्युत्पत्तिरपि बोध्या । संयोगादीनामिति टीका, यदा चतुरणुकस्योत्पत्तिर्जायते तदा त्रसरेणवः समवायिकारणम्, तत्संयोगो भवत्यसमवायिकारणम् अस्मदाद्यदृष्टं भोगजनकीभूतं निमित्तकारणमित्यर्थः । स्वाश्रयेति मूलम् स्वशब्देन रूपादिकं कार्यगतम्, तस्य योऽऽश्रयस्तस्य यत्समवायि - कारणम्, तन्निष्ठाः ये रूपादयः तेभ्यः सकाशात् कार्यगता रूपादय उत्पद्यन्ते, यथा घटरूपं कपालरूपाज्जायते । एवं रसादयोऽपीत्यर्थः । अथ नाशक्रमो दृश्यते-इत्थमिति मूलम् । यथा रूपवद् द्रव्यमुत्पन्नम्, तस्यावयवे कालोत्तरे क्रिया जायते । अस्मदादिभोगजनकीभूतादृष्टसंयोगवदात्मसंयोगेन कार्यद्रव्ये घयदिसमवायिकारणे कपालादौ क्रिया जायते । तया क्रियया कपालस्य पूर्वदेशलक्षणद्वितीयकपालेन समं विभागः क्रियते। तदनन्तरं तेन विभागेन घटारम्भकीभूतकपालद्वयसंयोगोऽस्यासमवायिकारणम्, तस्य विनाशः क्रियते । तदनन्तरमसमवायिकारणनाशजन्यो घटादिविनाशो जायते । एवमस्मदाद्यदृष्टध्वंसवदात्मसंयोगेन कपालसमवायिकारणीभूतकपालिकायां क्रियोत्पद्यते । तया क्रियया 'कपाललक्षणद्वितीयो योऽवयवः, तेन समं क्रियया कपालिकायाः विभागो जातः । तेन विभागेन कपालारम्भकीभूतकपालिकाद्वयसंयोगलक्षणस्यासमवायिकारणस्य नाशः क्रियते । तदनन्तरमसमवायिकारणनाशात् कपालनाशो जायते । एवं द्वयणुकपर्यन्तनाशो बोध्यः । १. B omits तदनन्तरं २. Bomits इति. ३. B संयोगो योऽसम. ४. कपालद्वितीयो-. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306