________________
तर्कतरङ्गिणी
१५५ सत्त्वात् । प्रामाण्यग्रहणानुव्यवसाययोरेकक्षणोत्पत्तिस्तदनन्तरमनुव्यवसायोत्पत्तिक्षणापेक्षया द्वितीयक्षणे प्रवृत्तिर्जायते । सः तु क्षणोऽनुव्यवसायस्य स्थितिक्षणः । तथा च 'प्रवृत्तिपूर्वकालेऽपि प्रामाण्यविषयानुव्यवसायरूपकारणस्य सत्त्वाद् यदि मीमांसकाभिमतसामग्र्योक्तरूपया प्रामाण्यं न गृह्यते तदा प्रामाण्यज्ञानरूपकारणाभावेन प्रवृत्तिरेव न स्यात् ।
तस्याः सामग्र्या:नैयायिकाभिमतत्वं दूषयति- न च तदिति तदनुव्यवसायरूपं ज्ञानविषयक ज्ञानं प्रामाण्यग्राहकत्वेन नैयायिकाभिमत-सामग्रीरूपं न सम्भवति । तथा च प्रवृत्तें पूर्वं न्यायमते प्रामाण्यज्ञानं न वृत्तमेव । तथा च प्रामाण्यज्ञानत्वेन प्रवृत्तित्वेन च कार्यकारणभावस्वीकारः । तदा न्यायमते प्रामाण्यज्ञानव्यतिरेकेण प्रवृत्ति न स्यात् । तन्मते प्रवृत्तेः प्रामाण्यग्राहकसामग्र्यभावात्, तद्ग्रह एव न जात इति । तथा च प्रवृत्त्यन्यथाऽनुपपत्तेः प्रवृत्तेः पूर्वं प्रामाण्यज्ञानमवश्यमपेक्ष्यमेव। तथा च प्रामाण्यं स्वतः एव ग्राह्यमिति सिद्धम् ।
न्यायमतं दूषयति-सर्वत्रेति तथा च नैयायिकैः यदुच्यतेऽनुमानेन प्रामाण्यं गृह्यते, तथाहि कुत्रचित् प्रत्यक्षेण जलादिज्ञानं जातं तत्र ज्ञाने प्रामाण्यं गृहीतम् । तथा च तत्रैव जलादिज्ञानत्वावच्छेदेन प्रामाण्यं गृहीतम् । धूमवत्त्वावच्छेदेन व्याप्तिग्रहवत् । ततः कालान्तरे जलज्ञनानन्तरमनुमानं 'जायते। यथा-इदं जलज्ञानं प्रमा, जलज्ञानत्वात्, पूर्वजलज्ञानवदिति । तथा चानेनानुमानेन या जन्याऽनुमितिर्यथेदं ज्ञानं प्रमेति अनया प्रामाण्यं विषयीक्रियते । तथा च जलज्ञानत्वेन जलज्ञाने येन पुरुषेण प्रामाण्यं गृहीतं तस्य पुरुषस्य कालान्तरे तज्जातीयेन लिङ्गेन कदाचिदनुमितिर्भवति । यदा च व्याप्तिज्ञानादिरूपा सर्वा सामग्री मिलति तदाऽनुमितिर्भवति । तज्जातीयत्वं तु जलज्ञानत्वेन रूपेण, जलज्ञानत्वं तु प्रत्यक्ष रूपम् । यज्जलज्ञानं जातं तवृत्ति यज्जलज्ञानत्वं तत्रापि जलज्ञानत्वस्य वर्तमानत्वात् । तथा च जलज्ञानत्वेनानुमानस्यापि साजात्यमिति न्यायप्रक्रिया।
इदं सर्वत्र न सम्भवतीति दूषयति सर्वत्रेति । तथा च "व्याप्तिज्ञानमुक्तरूपं न वृत्तं, लिङ्गज्ञानमपि न वृत्तम् । तत्र प्रामाण्यग्रहो भवन्मते न जात एव । भवदभिमतसामग्र्यभावात् । तथा च भवन्मते प्रवृत्ति न स्यात् । अस्मन्मते चानुव्यवसायादि प्रामाण्यग्राहिकाऽस्त्येवेति जायते । तत्र लिङ्गं दूषयित्वा दृष्टान्तं दूषयति-प्राथमिकेति यस्य पुरुषस्य प्रथमतः प्रामाण्यज्ञानत्वेन जलादिज्ञानमेव न वृत्तं तत्र दृष्टान्तासम्भव एव ।
अथ हेत्वन्तरमुत्थाप्य दूषयति-नापीति इदं जलज्ञानं प्रमा, समर्थप्रवृत्ति जनकत्वात् । अनेनापि हेतुना प्रामाण्यं साधयितुं न शक्यते । “हेतुज्ञानस्य प्रवृत्त्युत्तरकालत्वात् । १. A प्रवृत्तिकाले प्रवृत्तिपूर्वकाले. २. B प्रामाण्यरूप.. ३. B ग्राहिक. ४. B -प्तिग्रहात्. ५. B -मानं यथा जायते. ६. B जलज्ञानं. ७. B -प्तिज्ञानत्वस्य वर्तमानत्वादुक्तरूपं. ८. B यथा हेतु..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org