Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 218
________________ तर्कतरङ्गिणी १७७ पृथिवीत्वादिनेति - यदि मात्रपदं न दीयते तदा पृथिव्यादावतिव्याप्तिः । प्रयत्नकारणीभूतो भवति शरीरमनःसंयोगः । तदाश्रयीभूतं भवति शरीरम् । अन्त्यावयविवृत्तिर्जातिस्तवृत्तिशरीरवृत्तिः भवति पृथिवीत्वम् । तद्वत्त्वं पृथिवीमात्रे तिष्ठतीत्यतिव्याप्ति । एवं जलत्वद्रव्यत्वादिकमादायातिव्याप्ति र्बोध्या । मात्रपदे दत्ते तु पृथिवीत्वादिकं चान्त्यावयविमात्रवृत्ति न भवति । तस्य कपालद्वयादावपि वर्तमानत्वात् । पण्डेति स्पष्टम् । ननु शरीरत्वं न जातिः, जातिसाङ्कर्यात्, तथाहि, पृथिवीत्वादिनेति चेत्, न । जातिशब्देनात्रोपाधिविवक्षितः । अथवा शरीरत्वं जातिरेव । सुखकारणतावच्छेदकत्वेन जातिसिद्धिः । न च जातिसाङ्कर्यमिति वाच्यम् । जातिसङ्करस्तु दोषस्तत्र भवति यत्र च [न ?]कोऽपि अनुकूलतर्को भवति । यथा भूतत्वमूर्तत्वस्थले । प्रकृते च कार्यकारणभाव एवानुकूलतर्कस्तिष्ठति । यदि चानुकूलतर्के कार्यकारणभावे विद्यमाने जातिसाङ्कर्याज्जाति न सिध्यति तदा 'पृथिवीत्वादेरपि जातित्वं न सिध्येत्। शरीरत्वेन समं पृथिवीत्वस्यापि सङ्करात् । तत्र यदि कार्यकारणभावरूपानुकूलतर्केण पृथिवीत्वरूपा जाति र्गन्धासमवायिकारणतावच्छेदकत्वेन स्वीक्रियते तदा प्रकृतेऽपि सुखादिकारणतावच्छेदकत्वेन शरीरत्वं जातिः सिद्ध्यतीति । तथा चोभयत्र विनिगमनाविरहा(त)जातिस्त्वस्तीति दिक् । भूतत्वजातिसाधनेऽनुकूलतर्कः कोऽपि नास्ति । तेन मूर्तत्वेन समं सङ्करः । मूर्तत्वं च जातिरेव । स्यन्दसमवायिकारणताऽवच्छेदकत्वेनेति ज्ञेयम्। चेष्टावदिति - चेष्टावति वृत्तिर्याऽन्त्यावयविमात्रवृत्तिर्जाति भवति, तद्वत्त्वं शरीरत्वम् । मृतशरीरसंग्रहार्थमिदम् । यथा चेष्टावति शरीरेऽन्त्यावयविमात्रवृत्तिर्जातिः, शरीरत्वं तद्वत्त्वं च शरीरमात्रे वर्तते इति कृत्वा तदपि लक्षणमेव । मात्रपदं च घटादावतिव्याप्तिवारणार्थम् । तत्रापि पृथिवीत्वजातिसत्त्वात् । अन्त्यावयिवपदं च हस्ताद्यवयवेऽतिव्याप्तिवारणार्थम् । जातिघटितं च लक्षणं मृतशरीरसंग्रहार्थम् । अत्र चेष्टाश्रयं शरीरमिति शरीरलक्षणे कृते घटदावतिव्याप्तिः । तत्रापि चेष्टाशब्देन क्रिया तदाश्रयत्वं घटादावप्यस्तीति मूलकारोऽन्यथा व्याचष्टे-चेष्टत्वेति -न त्विति तथा चोक्तक्रियाश्रये घटादौ हिताहितप्राप्तिरिहारौ न सम्भवतः । तयोरात्मधर्मत्वात् । क्रियान्तरेणेष्टसाधनतारे ज्ञानरूपेणाहितमनिष्टसाधनताऽज्ञानरूपेणाहितम् । ततो यथा घटादौ तौ सम्भवतः तथा शरीरेऽपि न सम्भवति (त:) इत्याशङ्कार्थः । चेष्टात्वं जाति: शरीरनिष्ठकर्मवृत्तिः कर्मत्वव्याप्याजातिः । अथवा चेष्टात्वमुपाधिरित्याह-प्रयत्नवदिति - प्रयत्नवानात्मा, तस्य संयोगः आत्ममनःसंयोगः स एवासमवायिकारणं यस्यां क्रियायाः, त[व]त्त्वमेव चेष्टात्वम् । एवं च शरीरनिष्ठा या क्रियाचेष्टा, तां प्रत्यात्ममन:संयोगोऽप्यसमवायिकारणं भवतीत्यर्थः । एवं चेष्टात्वं क्रियात्वव्याप्यजातिविशेष उपाधिविशेषो वा । १. B अष्टपृथिवीत्वा.. २. B पूर्वमत्र. ३. B -साधनतारूपेणाहि. ४. B omits च. तर्क.-२३ JainEducation International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306