Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 216
________________ तर्कतरङ्गिणी १७५ सुखदुःखानुगमं कृत्वा, 'तदीयो सुखदुःखीयो यो लौकिकसाक्षात्कारः स एव भोग इति भोगलक्षणम् । तथा च प्रकृते साक्षात्कारसामग्री सुखदुःखस्वरूपा । एतत्साक्षात्कारं प्रति विषयत्वेनानयोरपि कारणत्वात् । तस्यां सामग्र्यां निविष्टो यो पदार्थः विषयतारूप:, तन्निष्ठो यो धर्मः विषयतारूप:, तद् व्याप्या योत्पत्तिः सुखदुःखयोः साक्षात्कार' विषयनिष्ठा यथा यत्र यत्र सुखदुःखनिरूपितविषयत्वं तत्र तत्र विषयत्वसम्बन्धेन सुखदुखयोः साक्षात्कारोत्पत्तिः । इयमुत्पत्तिः सुखदुःख निष्ठा (ष्ठ) ज्ञानस्योत्पत्तिः । तथापि या गुणत्वसाक्षाद्व्याप्या जातिः सुखदुःखत्वरूपा तद्वित्वेन सुखदुःखयोरनुगमः । तथा चानेन रूपेण सुखदुःखयोलौकिकसाक्षात्कारः सुखदुःखानुभवो मानसरूपो स एव भोग इत्यर्थः । लौकिकेति यदि लौकिकपदं न दीयते तदाऽतीतं यद् सुखदुःखादिकं तदनुभवोऽपि भोगः स्यात् । तस्यापि ज्ञाने(नं) सामान्यलक्षणप्रत्यासत्तिप्रवृत्त्या वर्तते इति तद्वारणार्थं लौकिक पदम् । तथा च लौकिकसन्निकर्षजन्यो यः साक्षात्कार [रूप: ] पक्ष: [स] एव सुखदुःखविषयको ग्राह्यः । सुखादिति तथा च साक्षात्कारसामग्रीनिविष्टता व्याप्योत्पत्तिमत्त्वमात्रेणैव यद्यनुगमः क्रियते तदा ज्ञानविशेष्टोऽतिव्याप्ति र्भवति । यथा कस्यचिद् घटविषयकं ज्ञानं जातं यथा घटोऽयमिति तस्य च सामग्री घटोऽपि भवति । तन्निविष्टो धर्मो घटनिरूपितविषयितारूपो घटविषयकज्ञाने, तस्य व्याप्या योत्पत्तिः एतज्ज्ञाननिष्ठैव । तथा चैतत्ज्ञानस्याप्यनेन धर्मेणानुगमो वृत्तः । तेन यथा सुखदुःखानुभवो भोगो भवति तथा एतज्ज्ञानानुभवोऽपि भोगः स्यात् । तद्वारणार्थं व्याप्यगुणत्व साक्षाद्व्याप्यजातिमत्त्वम् । तथा चैतज्ज्ञानत्वं तु गुणत्वसाक्षाद्व्याप्या जाति र्न भवति ज्ञानत्वरूपा तस्य तथा चानेन द्वितीयभागेन ज्ञानविशेषवारणं वृत्तम् । ननु गुणत्वसाक्षाद्“व्याप्यत्वं कस्य विशेषणम्ः यद्युच्यते उत्पत्तेः, तदाऽसम्भवः; यथोत्पत्तेर्घयदावपि वर्तमानत्वात्, यत्र च गुणत्वसाक्षाद् व्याप्यजातिमत्त्वं नास्ति । ततो गुणत्वसाक्षाद्व्याप्यत्वमुत्पत्तिव्याप्यजातेर्विशेषणम् । 'सुखदुःखनिष्ठैव ज्ञानस्य योत्पत्तिस्तस्यां व्याप्या या जातिस्तस्यां विशेषणम् । तथा च प्रतिशरीरं विजातीयं ज्ञानमुत्पद्यते । यत्र शरीरं विशेष्ये सुखघटादिसमूहालम्बनात्मकं ज्ञानं वृत्तम्, तद्विषयता यथा सुखे वर्तते तथा घटेऽपि वर्तते । तद्व्याप्योत्पत्तिः सुखघटनिष्ठा, तद्व्याप्या या जातिः, सुखत्वं घटत्वं वा तदवच्छिन्नानुभवो भोग इति पर्यवसन्नम् । तदा घटविषयकज्ञानेऽपि अतिव्याप्तिरेवेति । तद्वारणार्थं गुणत्वसाक्षाद्व्याप्यत्वं जातेर्विशेषणं न तूत्पत्तेः । एतदुपरि शङ्कते - यदीति एतादृशं ज्ञानं नोत्पद्यते । यथाऽहं सुखी तथाऽहं घटीतिः १. B तदा. २. B साक्षात्कारनिष्ठा. ३. B यथा ४. B साध्यव्याप्या ( ? ) - ५ B सुखदुःखेति तथैव ज्ञानस्य. ६. B विशेषणं कृत्यं न तू. ७. A omits ऽहं. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306