Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 215
________________ १७४ तर्कतरङ्गिणी प्रत्यक्षगुणत्वव्याप्यजातिमत्त्वाभावात् । तत्र गुणत्वाभावेन तद्व्याप्यजातिमत्वाभावात् । न च धर्मादाविति धर्माधर्मादौ प्रत्यक्षगुणत्वव्याप्या जाति स्ति । धर्मत्वाधर्मत्वयोरप्रत्यक्षत्वात् 'भागासिद्धिः । पक्षैकदेशे हेतोरभावादित्यर्थः । अपक्षत्वादितः तथा च बुद्ध्यादीनामिच्छान्तानामेव पक्षत्वमत एव सिद्धम् । बुद्ध्यादयो विशेषगुणाः, प्रत्यक्षगुणत्वव्याप्यजातिमत्त्वे सति द्वीन्द्रियग्राह्यगुणत्वव्याप्यजातिरहितत्वात्, रूपवदिति । बुद्ध्यादीनामनेनानुमानेन विशेषगुणत्वं सिद्धम् । इतः परं कैश्चित द्रव्याश्रितत्त्वं बुद्ध्यादीनां साध्यते । इत्याह-प्रयोगश्चेतीति । अत्रेति अनुमानखण्डे व्यतिरेकग्रन्थे यथा बुद्ध्यादयः । इत्यनुमानेन किञ्चिद् द्रव्यं बुद्ध्यादीनामाश्रयत्वेन सिद्धम् । तदेव पक्षः । तथा च तद्रव्यमष्टद्रव्याणि पृथिव्यादिमनःपर्यन्तान्यात्मानं विहाय-तदतिरिक्तत्वं पृथिव्याद्यष्टद्रव्यतिरिक्तत्वम् । तत्र बुद्धाश्रय साध्यते । केन ? तदवृत्तित्वरूपेण हेतुना । तथा च'बुद्ध्याश्रयीभूतं द्रव्यमष्टद्रव्यातिरिक्तम्, तदवृत्तित्वरूपेणाष्टद्रव्यावृत्तिधर्मवृत्तित्वात्; गुणवत् ।' गुणे हि अष्टद्रव्यावृत्ति गुणात्वरूपधर्मत्वं वर्तते । अष्टद्रव्यातिरिक्तत्वरूपं साध्यमप्यस्ति । तथा चानेनानुमानेनाष्टद्रव्यातिरिक्तं द्रव्यं सिद्धम् । द्रव्यत्वेन रूपेणेदानी व्यतिरेक्ययनुमानेनात्मप्रकारकबोधविषयीभूतं द्रव्यं साधयति । तदाश्रितेति-आत्माश्रितत्वम् । तथा च मूले प्रयोगः । यथा हेतुःयथा पृथिव्याधष्टद्रव्याश्रितत्वे सति गुणत्वात् । सत्यन्ततादाने रूपे व्यभिचारः । रूपत्वादौ व्यभिचारवारणार्थं गुणत्वादिति भावः । शब्दसाम्येने]ति अन्वयव्यतिरेकिकेवलव्यतिरेकिणोः शब्दसाम्यं पञ्चम्यादिरूपम् । गौरवमिति तथा चात्मनो यदि मध्यमं परिमाणवत्त्वं तदाऽनेन हेतुनाऽनित्यत्वं - एतदेव गौरवमित्यर्थः । एवं 'चात्मनि उत्पत्तिः कल्पनीया । समवायिकारणादिकल्पनायां गौरवमिति भावः । एकस्मिन्निति - तथैकस्मिन्नेवात्मनि एकस्मिन्नेव काले सुखदुःखयोरनुत्पादेनानयोरेककालावच्छेदेनानुभवो न सम्भवतीति' । (II) शरीरलक्षणे भोगः । यथाश्रुतं मूलोक्तं भोगलक्षणं न सम्भवतीति टीकार्थः । यधुच्यते 'एकतरानुभवो भोगः' इति, तदा च प्रत्येकमव्याप्तिः । तथा चोभयथाऽपि मूलोक्तं भोगलक्षणं दुष्टमेवेति मनसि कृत्वाऽन्यथा भोगलक्षणं करोति-साक्षात्कारसामग्रीति साक्षात्कारस्य या सामग्री, तत्र निविष्टो यो पदार्थः, तन्निष्ठो यो धर्मो निविष्टितरूपः, तद्व्याप्या योत्पत्तिः, तद्व्याप्या या गुणत्वव्याप्या जातिः, "तद्वयेन धर्मेण १. B भागासिद्धेः । २. A चात्मनः. ३. B omits इति. ४. B सा द्वयेन. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306