Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 211
________________ १७० तर्कतरङ्गिणी नास्तीति व्यभिचार इत्यर्थः । अत्र हेतुमाह-व्यासज्येति । कदाचिद् भवता वक्तव्यम्, एकेन्द्रियग्रहणयोग्यता द्वीन्द्रियग्रहणयोग्यतोभयत्वावच्छिन्न प्रतियोगिताकोऽभावो वाच्यः । यथा घटपटौ न स्तः इत्यनया प्रतीत्या घटपटोभयत्वावच्छिनप्रतियोगिताकोऽभावो व्यासज्यवृत्तिधर्मप्रतियोगिताकोऽभावो घटत्वावच्छिन्नपटत्वावच्छिन्न प्रतियोगिताकाभावावच्छिन्न एव विषयीक्रियते । घटवत्यपि भूतले घटपटौ न स्तः इति प्रतीतेरुदयात् । तथा च यदि घटत्वावच्छिन्नप्रतियोगिताकाभावादतिरिक्तो व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकोऽतिरिक्तो न स्वीक्रियते, तदा घटवति भूतले घटपटौ न स्त इति प्रतीतिर्न स्यात् । न च घटवति भूतले घटपटौ न स्त इति प्रतीति: पटाभावविषयिण्येव, तत्र घटवति भूतले पटाभावस्य सत्त्वादिति वाच्यम् । तथा च यदि घटपटौ न स्तः इति प्रतीति: पटाभावविषयिण्येव तदा पटवति भूतले घटपटौ न स्तः इति प्रतीति न(न)स्यात् । तत्र च पटस्य सत्त्वात् । पटत्वावच्छिन्नप्रतियोगिताकाभावो वक्तुं न शक्यते । तत्र पटस्य विद्यमानत्वात् । पटत्वावच्छिनप्रतियोगिताकाभावं प्रति पटसत्त्वमेव विरोधि । तथा च यत्र भूतले पटो 'वर्तते तत्र पटत्वावच्छिनप्रतियोगिताकाभावो न तिष्ठति। तथा चातिरिक्तो द्वित्वावच्छिन्नप्रतियोगिताकोऽभावः स्वीकर्तव्य एव । तेन द्वित्वावच्छिनप्रतियोगिताकाभावं प्रति द्वित्वावच्छिन्न प्रतियोगिताकाभाव सत्त्वं विरोधि । तथा च यत्रैकपदार्थों वर्तते तत्र द्वित्वावच्छिनप्रतियोग्यसत्त्वेन तदवच्छिनप्रतियोगिताकाभावः स्थास्यत्येव । तथा च घटवति भूतले घटपटौ न स्तः इति प्रतीतौ घटपटोभयाभावविषयो भवति । तथा च "व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावोऽतिरिक्तो नवीनै: स्वीक्रियते । विशिष्टाभाववदिति । व्यासज्यत्वं नाम यद्धर्माश्रयनिष्ठात्यन्ताभावप्रतियोगित्वम् । इदं च घटत्वादौ नास्ति । घटत्वस्य घटत्वाश्रये घटे घटत्वात्यन्ताभावस्य विरहात् ।। इदं च द्वित्वे वर्तते । द्वित्वस्याश्रयौ भवतः घटपौ । घटनिष्ठात्यन्ताभावस्य प्रतियोगित्वं भवति घटे । यद्यपि घटपटोभयत्वं समवायसम्बन्धेन वर्तते तथापि पर्याप्ताख्यसम्बन्धेन घटे द्वित्वं नास्तीति उभयत्वं व्यासज्यवृत्तिधर्मो भवति । न च घटमात्रेऽपि द्वित्वं वर्तते एवेति वाच्यम् । तथा सति यत्र भूतले एक एव घटोवर्तते तत्र भवन्मते घटमात्रे द्वित्वस्य वर्तमानत्वात् द्वौ घटौ इति प्रतीति भवतु। न जायते च तथा प्रतीतिः। __ तस्मादित्येकत्र पर्याप्ताख्यसम्बन्धेन व्यासज्यवृत्तिधर्म उभयरूपो नास्तीति व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिता[का] भावोऽतिरिक्त एव, तथा प्रकृतेऽपि "एकेन्द्रियग्रहणयोग्यतावत्यपि १. B -भाववद् भिन्न एव. २. नास्ति (?). ३. B omits तेन. ४. B व्यासज्यधर्माव.. ५. It is विशिष्टाभावत्वात in त. भा. प्र. ६. B उभयं. ७. PI. add एकेन्द्रियग्रहणयोग्यतोभयत्वावच्छिन्नप्रतियोगिताकाभाव. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306