Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 206
________________ तर्कतरङ्गिणी १६५ प्रामाण्यसन्देहो न स्यात् । भवन्मते प्रामाण्यस्य निश्चितत्वात् । निश्चिते प्रामाण्ये सन्देहो न स्यात् । न चेति । तथा च प्रामाण्यसन्देहः । प्रामाण्यस्य यज्ज्ञानं तत्र यत्प्रामाण्यं तत्सन्देहात् । व्यवसायनिष्ठप्रामाण्यस्यापि सन्देहो भवति । तथा च प्रथमतो घटोऽयमिति ज्ञानं जातम्, तदनन्तरं द्वितीये क्षणे घटं घटत्वेन जानामीत्यनुव्यवसायः । अनेनानुव्यवसायेन घटोऽयमिति व्यवसायरूपं यज्ज्ञानं तन्निष्ठ प्रामाण्यं विषयीक्रियते । तथा च व्यवसायनिष्ठप्रामाण्यस्य ज्ञानमनुव्यवसायरूपम् । तन्निष्ठं- अनुव्यवसायनिष्ठं प्रामाण्यमन्यदेव व्यवसायनिष्ठप्रामाण्यादतिरिक्तमेव । तथा चानुव्यवसायनिष्ठप्रामाण्यस्य प्रथमतः सन्देहो जायते । घटं घटत्वेन जानामीतिज्ञानं प्रमाणम् । न चेत्याकारकः अनुव्यवसायनिष्ठप्रामाण्यस्यानिश्चितत्वात् । तथा च व्यवस्यायनिष्ठ प्रामाण्ये निश्चितेऽपि व्यवसायनिष्ठप्रामाण्यज्ञानं यदनुव्यवसायरूपं नियतप्रामाण्यं तत्सन्देहाहित- तत्सन्देहकृतव्ययवसायनिष्ठप्रामाण्यस्यापि सन्देहो भवतीति न च वाच्यम् । तत्रापीति । व्यवसायनिष्ठप्रामाण्यविषयकानुव्यवसायादौ अपि भवन्मते प्रामाण्यसन्देहानुदयात् । यया युक्त्या व्यवसायनिष्ठप्रामाण्यं स्वतो ग्राह्यमित्युक्तं, सा युक्तिरत्राप्यनुव्यवसायेऽपि तिष्ठति । गुरूमते प्रामाण्यं स्वाश्रयेणैव विषयीक्रियते । तथा चानुव्यवसायनिष्ठं यत्प्रामाण्यं तस्याश्रयो भवत्यनुव्यवसायस्तेनैव स्वनिष्ठं प्रामाण्यं विषयीक्रियते । ततोऽनुव्यवसायनिष्ठप्रामाण्यस्यापि निश्चितत्वात् । तथा च प्रामाण्यज्ञाननिष्ठप्रामाण्यस्य निश्चितत्वात् प्रामाण्यज्ञाननिष्ठ प्रामाण्यसन्देहाभावेन व्यवसायनिष्ठप्रामाण्यसन्देहोऽपि न सम्भवतीति भावः । अन्यथा स्वज्ञानानिष्ठप्रामाण्यसन्देहेनापि यदि विषयसन्देहः क्रियते तदा भूतले घट इति ज्ञाने प्रामाण्यसन्देहानन्तरं भूतले घटये न वेति सन्देहः स्यात्। अन्यसन्देहादन्यसन्देहो न भवति । तत्रोभयकोटिज्ञानाभावात् । तथा च प्रामाण्यस्य परतस्त्वे संशयानुपपत्तिरेव बाधिका । मीमांसकः संशयोपपत्ति प्रकारान्तरेण शङ्कते न चेति । तथा च सन्देहस्त्रिविधिः । एकः समानधर्मदर्शनजः (१), अन्योऽसाधारणदर्शनज: (२) एको[: तृतीय: ]विप्रतिपत्तिजन्यः (३) । प्रथमो यथा- स्थाणुर्वा पुरुषो वेत्यादौ । अत्र साधारणधर्मो भवत्युच्चैस्त्वरूपः । स स्थाणुपुरुषसाधारण इति (१) । द्वितीयो यथा - शब्दो नित्योऽनित्यो वा । 'अत्रासाधारणधर्मो भवति नित्यत्वानित्यत्वव्यावृत्तः शब्दत्वरूपः । तस्य शब्दातिरिक्तेऽनित्ये नित्ये वाऽभावेनासाधारण:' [२]। तृतीयो यथा ज्ञानप्रामाण्यमित्यादौ (३) । १. A omits प्रामाण्ये. २. A प्रामाण्येऽन्यदेव. ३. B omits अपि. ४. Bomits अन्य ५ B - भावादिति । ६. B Omits अत्र and reads असा.. ७ B -धारण इति । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306