Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 200
________________ तर्कतरङ्गिणी १५९ ननु सा धर्माधर्मजन्यैव भविष्यतीत्यत आह-धर्माधर्माति उपेक्षणीया या 'ज्ञातता, तस्या अनुपपत्तिरेव स्यात् । तथाहि प्रवृत्तिनिवृत्त्यजनकीभूतं यज्ज्ञानं तदुपेक्षात्मकम् । तज्जन्या' तद्विषये ज्ञाततोत्पद्यते । तस्य धर्माधर्मजन्यत्वे तूत्पत्तिरेव न स्यात् । तथाहि प्रवृत्तिप्रसङ्गः धर्माधर्मयोः भोगः, तज्जनकान्यतरं प्रतिकारणत्वात् । ज्ञातता तु न वा भोगो न वा भोगजनक(निका) इति ।। ज्ञातता इच्छाजन्याऽपि न भवति । तद्विषये विषयादावपि इच्छाव्यतिरेकेणापि ज्ञाततायाः ज्ञायमानत्वात् । एवं द्वेषप्रयत्नाविषयेऽपि चन्द्रादौ ज्ञाततायाः उत्पत्तेः । तदनुत्पादेऽपीति यदा सुखदुःखयोनिरुत्पत्तिर्नजाता तदपि यस्य ज्ञानमात्रं जायते तत्रापि ज्ञाततोत्पत्तेः । ननु तर्हि आत्मधर्मजन्यैव ज्ञातता भविष्यतीत्यत आह-प्रत्यात्मनीति । आत्मनि प्रतिनियतो यो धर्मः ज्ञानरूपस्तज्जन्यत्वात् तस्य जन्यत्वात्, तस्याः ननु ज्ञानमात्रेण ज्ञाततायाः जन्यत्वे शाब्दानुमितिर्जन्यत्वमप्यायास्यतीत्यत आह शाब्दानुमित्योरिति । तयोः ज्ञाततां प्रत्यजनकत्वादित्यर्थः । ज्ञाततायाः प्रत्यक्षज्ञानजन्यत्वादनुमित्यादिस्थले वह्निरनुमित इत्येव न तु ज्ञात इति प्रामाण्यम् । अनुमानेनेति उक्तपरिशेषानुमानेनात्मनि ज्ञानसिद्धिर्जाता । न्यायमते स्वमते । ___ भाट्टमतेऽर्थापत्याऽपि ज्ञानसिद्धिमाह-"एवं चेति तन्मतेऽर्थापत्तिः पृथक् प्रमाणं भवति । तेनैव प्रमाणेन भाट्टमतेऽऽत्मनि ज्ञानसिद्धिः । अथ न्यायमतेन ज्ञाततां दूषयति-ज्ञातोऽयमिति । तथा च न्यायमते ज्ञानविषयत्वमेव ज्ञातता पदार्थस्वरूपमेव । अतिरिक्तो वा पदार्थ- नवीनमते । यथाऽयं घट इत्यत्र ज्ञानविषयो घटो भवति । तत्र च विषयता वर्तते । विषयतायाः विषयधर्मत्वात् प्राचीनमते विषयता विषयस्वरूपमेवेति। अस्मिन्नपीति । यस्मिन्पक्षे नैयायिकेन विषयतैव ज्ञातता स्थापिता तस्मिन्नपि पक्षे ज्ञातोऽयं घट इति प्रतीत्या ज्ञाततासिद्धिर्भवत्येव । तत्रेति तथा च ज्ञातताधारत्वमेव नैयायिकाभिमता विषयता। यदि न्यायमते ज्ञाततातिरिक्तपदार्थो न भवति किन्तु विषयतैव तदा न्यायमते विषयतास्वरूपसम्बन्धविशेष एव । स तु ज्ञानस्वरूपं विषयस्वरूपं वा । तथा च विषयनिष्ठो धर्मो नागत एव । यतो विषये घटदौ विषयो नास्ति । ज्ञाने च ज्ञानं नास्ति-इति ज्ञातताऽतिरिक्तैव स्वीकार्या। यदि नैयायिकेन ज्ञानजनकत्वमेव ज्ञातता वाच्या, तदा चक्षुरादावपि तद्वृत्तिः स्यात् । अतो न ज्ञातताऽतिरिक्ता । दूषयति शक्येत्याह-ज्ञानभिन्नत्वमिति । नैयायिकः स्वमतेन ज्ञाततातिरिक्तं दूषयित्वा स्वमते विषयतां स्थापयति । स्वरूप सम्बन्धविशेष एवेति तथा च मीमांसकेन यदुक्तं-अयं घट इति ज्ञाने घट एव विषयो भवति न पटदिरित्यत्र किं नियामकम् ? मन्मते [मीमांसकमते ]तु १. B यज्ज्ञातता. २. B तज्जन्यतद्विषये. ३. It is प्रत्यात्मेति in त. भा. प्र. ४. This प्रतीक is not found in त. भा. प्र. ५. It is एवमिति in त. भा. प्र. ६. B अत्र. ७. B नैयायिके तु ज्ञान.. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306