Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 177
________________ १३६ तर्कतरङ्गिणी भविष्यति ? [अत:]सामान्यलक्षणैव प्रत्यासत्तिर्वाच्या । तथा च धूमवत्त्वेन रूपेण महानसस्थले धूमाधिकरणे वह्निर्गृहीतः । तथा च वह्निना समं चक्षुरिन्द्रियस्य सन्निकर्षः । चक्षुरिन्द्रियसन्निकृष्टधूमाधिकरणवृत्तित्वमेव सन्निकर्षः । ततोऽनेन सन्निकर्षेण पर्वतीयवह्नविषयकं प्रत्यक्षमेव सम्भवति, किमर्थमनुमानम् । एवमतीन्द्रियस्थलेऽपि भवन्मतेऽपि सामान्यलक्षणारूपसन्निकर्षसत्त्वात् प्रत्यक्षमेव सम्भवति । मन्मते तु अतीन्द्रियपदार्थस्याभावादेव नानुमानम् । एवं शब्दस्थलेऽपि श्रोत्रेण शब्दविषयकप्रत्यक्षद्वारा पदविषयकप्रत्यक्षद्वारा वाक्यार्थसंसर्गरूपं प्रत्यक्षज्ञानमेव सम्भवति । न्यायमते तु गौरवम् । यथा प्रथमतो वर्णोत्पत्तिः, तदनन्तरं श्रोत्रेन्द्रियस्य वणे : समं 'समवायरूपः सन्निकर्षः । तदनन्तरं श्रोत्रेण तावत् वर्णविषयकाराणि प्रत्यक्षाणि । तैः प्रत्यक्षैस्तावत् वर्णविषयकसंस्कारो जन्यते । तदनन्तरं संस्कारैः कालान्तरैः पदस्मरणं कर्तव्यम् । तेन स्मरणेन पदार्थस्मृतिः कर्तव्या । तदनन्तरं पदार्थस्मृत्या पदार्थानां परस्परं संसर्गबोधो जन्यते । अ(इ)यमेव शाब्दीप्रमा फलम्, पदज्ञानं करणम्, पदार्थस्मृतिस्तु अवान्तरव्यापारेति । अत्र दूषणम्-ज्ञानलक्षणप्रत्यासत्त्यैव वाक्यार्थबोधसम्भवात् । तथाहि यथा पूर्वघटदिपदशक्तिग्रहार्थं घटदिज्ञानं यत्ख्यातं चक्षुरादिना, तदनन्तरं तेन ज्ञानेन संस्कारो जनितः । पुनः कालान्तरे तेनैव संस्कारेण वाक्यरूपमुद्बोधकं प्राप्य घटादि पदार्थस्मरणं क्रियते । तथा घटकर्मकानयनक्रियादिरूपैः पदार्थैः सह श्रवणेन्द्रियस्य मनसो वा स्मरणरूपज्ञानलक्षणा प्रत्यासत्तिः। तया सन्निकृष्टानां घटादीनां परस्परमन्वयबोधो जायते । एतच्चक्षुरिन्द्रियमनसोः फलम्, पदार्थस्मरणमवान्तरव्यापारेति प्रत्यक्षमेव प्रमाणम् । __ तदपि मन्दम् । वह्निमनुमिनोमीति प्रत्ययेनानुमितित्वजातिः सिध्यति । सा तु "साक्षात्काररूपज्ञानव्यावृत्त्या तत्र साक्षात्करोमीति प्रत्ययो न भवत्येव । वर्तते च वह्निमनुमिनोमि, न साक्षात्करोमीति प्रत्ययात् । शाब्दस्थलेऽपि घयदीनां संसर्गः, शाब्दयामीति प्रत्ययात् न प्रत्यक्षत्वम्। प्रतीतिबलाद्भेदः। (IX) शक्तिः । शक्तिया॑यमते विशिष्टेश्वरेच्छैव । यथाऽस्माच्छब्दादयमर्थो बोधव्य इतिरूपा । तद्ग्रहोऽपि शाब्दबोधं प्रति कारणं भवति । वाच्यवाचकसम्बन्धग्रहव्यतिरेकेण शाब्दबोधानुदयात् । लक्षणा तु "स्वशक्यसम्बन्ध एव संयोगादिः । यथा चक्षुरिन्द्रियेण घटादिविषयं ज्ञानं जन्यते तदा घटचक्षुसंयोगमपेक्ष्यैव जन्यते तथा शब्देन घटदिविषयकं ज्ञानं जन्यते । तदा घटेन समं शब्दस्य १. B समवायसनि. २. B तच्चक्षु.. ३. B फले. ४. B रूपज्ञानवृत्तिः । तत्र. ५. Pl. add शाब्दस्थलेऽपि घटदीनां संसर्गः, शाब्दयामीति प्रत्ययात्- ६. B omits भवति. ७. B स्वरूपसम्बन्धशक्य एव. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306