Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 185
________________ तर्कतरङ्गिणी नन्वभावे विशेषणत्वधर्मोऽतिरिक्तः सिध्यतीयत्याह-स्वरूपमेवेति तथा च विशेषणत्वमभावस्य स्वरूपमेवेत्यर्थः । आदि पदाद्विशेष्यत्वमपि स्वरूपमेव ज्ञेयम् । ननु यदि विशेषणं तत्स्वरूपमेव, अभावयोः तदा वैलक्षण्यभेद केन कर्तव्यः ? विशेषणं यदि ताभ्यामतिरिक्तं वस्तु भवति तदाऽन्यतः तेन व्यावृत्तिः कर्तव्या । न चैवमस्ति । तथा च वैलक्षण्यमभावाभावस्वरूपेण भिन्नेनैव कर्तव्यम् । भावस्थले तु भावस्वरूपमेव सामान्यकारं भासते, अभावस्थले तु अभावस्य स्वरूपमेव सामान्याकारमेव व्यावृत्तिः कर्तव्येत्यर्थः । एवमिति यदि विशेषणविशेष्यभावसम्बन्धो न भवति तदा व्याप्यव्यापकभावादयोरपि सम्बन्धा न स्युः इत्याक्षेप इत्यर्थः । १४४ नन्विति तथा चाभावस्थलादौ यदि कश्चन सम्बन्धोऽतिरिक्तो न स्वीक्रियते तदाऽभावादिविशिष्टबुद्धिरेव न स्यात् । ततोऽतिरिक्तः कश्चित्सम्बन्धः विशिष्टबुद्धिजनकः स्वीकर्तव्य एव । अभावे तु सम्बन्धान्तरासम्भवेन द्रव्याद्यन्यतमत्वमेव सम्बन्ध उपाधिरूपः । द्रव्यादिसप्तान्यतमत्वमभावे वर्तते । स च [ स्व] रूपसम्बन्धो भवतु अतिरिक्तो वेत्यन्यदेतत्, तेनैव [वि] शिष्टबुद्धिर्जन्यते धर्मिभ्यामित्यभावभूतलाभ्यामतिरिक्तो भवत्येव स धर्मः । यतो योग्यताया अभावविशिष्टबुद्धिजनकत्वयोग्यतारूपस्य धर्मस्य योग्य पदार्थोऽभावभूतलादिरूप इत्यर्थः । नन्वभावे द्रव्याद्यन्यतमत्वं पूर्वदूषितम्, इदानीं कथं तत्समर्थनीयमित्यत आह न[चाभा]वेति' तथा चाभावेऽपि द्रव्याद्यन्यतमस्योपाधेः सम्भवात् । एतदेवाह - द्विविधमिति यद्यप्यभावे गतिर्न सम्भवति तथाप्युपाधिरूपं सामान्यं सम्भवत्येव । एतावताऽभावनिष्ठो विशिष्टबुद्धिजननयोग्यो द्रव्याद्यन्यतमरूप उपाधिरस्तीति विशेषणविशेष्यभाव एवायमित्यर्थः । एवमिति तथा च व्यापकत्वं व्याप्तिनिरूपकत्वं व्याप्यत्वं च व्याप्त्याश्रयत्वमिति व्याप्यव्यापकसम्बन्धोऽप्यतिरिक्त एवेत्याह नापीति तथा च यदि स सम्बन्धो ऽतिरिक्तः एको भवति तदोभयाश्रितत्वं तस्य स्यात् । न चैवमसाधारण्यं विनेति । तथा चोभयनिष्ठोऽसाधारणरूप एको धर्मो नागतः । विशेष्यभावो विशेष्यत्वं विशेषणभावो भवति विशेषणत्वम् । तच्च परस्परं विशेष्य विशेषणे च नास्त्येवेत्यसाधारण्यं नास्तीत्यर्थः । ननु विशेषणविशेष्यभावस्य सम्बन्धत्वेन तर्हि कथं प्रतीतिरित्यत आह उभयेति उभयविषयकं यत्समूहालम्बनात्मकं ज्ञानं यदा भूतलघटाभावावितिरूपं तद्विषयत्वेनोपचारेण सम्बन्धत्वप्रतीतिरूपपादनीया । न तु वस्तुगत्या सम्बन्धत्वमिति भावः । प्रत्यासत्तेरिति तथा च यत्र घटो वर्तते तत्राप्यभावस्य कश्चिदतिरिक्तो सम्बन्धो नास्ति । यत्र घटो न वर्तते तत्राप्यभावस्यातिरिक्तः सम्बन्धो नास्ति । तेन यथा घटाभाववति भूतले घटो नास्तीति प्रतीतिर्जायते तथा घटवत्यपि भूतले नास्तीति प्रतीतिः स्यात् । सम्बन्धाभावस्योभयत्र तुल्यत्वादिति। १. B आदिशब्दाद्वि. २. B पदार्थेऽपि अभा. ३. It is नचाभावेति in त. भा. प्र. and as it suits the context it is preferred. ४. B न. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306