________________
तर्कतरङ्गिणी
नन्वभावे विशेषणत्वधर्मोऽतिरिक्तः सिध्यतीयत्याह-स्वरूपमेवेति तथा च विशेषणत्वमभावस्य स्वरूपमेवेत्यर्थः । आदि पदाद्विशेष्यत्वमपि स्वरूपमेव ज्ञेयम् । ननु यदि विशेषणं तत्स्वरूपमेव, अभावयोः तदा वैलक्षण्यभेद केन कर्तव्यः ? विशेषणं यदि ताभ्यामतिरिक्तं वस्तु भवति तदाऽन्यतः तेन व्यावृत्तिः कर्तव्या । न चैवमस्ति । तथा च वैलक्षण्यमभावाभावस्वरूपेण भिन्नेनैव कर्तव्यम् । भावस्थले तु भावस्वरूपमेव सामान्यकारं भासते, अभावस्थले तु अभावस्य स्वरूपमेव सामान्याकारमेव व्यावृत्तिः कर्तव्येत्यर्थः । एवमिति यदि विशेषणविशेष्यभावसम्बन्धो न भवति तदा व्याप्यव्यापकभावादयोरपि सम्बन्धा न स्युः इत्याक्षेप इत्यर्थः ।
१४४
नन्विति तथा चाभावस्थलादौ यदि कश्चन सम्बन्धोऽतिरिक्तो न स्वीक्रियते तदाऽभावादिविशिष्टबुद्धिरेव न स्यात् । ततोऽतिरिक्तः कश्चित्सम्बन्धः विशिष्टबुद्धिजनकः स्वीकर्तव्य एव । अभावे तु सम्बन्धान्तरासम्भवेन द्रव्याद्यन्यतमत्वमेव सम्बन्ध उपाधिरूपः । द्रव्यादिसप्तान्यतमत्वमभावे वर्तते । स च [ स्व] रूपसम्बन्धो भवतु अतिरिक्तो वेत्यन्यदेतत्, तेनैव [वि] शिष्टबुद्धिर्जन्यते धर्मिभ्यामित्यभावभूतलाभ्यामतिरिक्तो भवत्येव स धर्मः । यतो योग्यताया अभावविशिष्टबुद्धिजनकत्वयोग्यतारूपस्य धर्मस्य योग्य पदार्थोऽभावभूतलादिरूप इत्यर्थः ।
नन्वभावे द्रव्याद्यन्यतमत्वं पूर्वदूषितम्, इदानीं कथं तत्समर्थनीयमित्यत आह न[चाभा]वेति' तथा चाभावेऽपि द्रव्याद्यन्यतमस्योपाधेः सम्भवात् । एतदेवाह - द्विविधमिति यद्यप्यभावे गतिर्न सम्भवति तथाप्युपाधिरूपं सामान्यं सम्भवत्येव । एतावताऽभावनिष्ठो विशिष्टबुद्धिजननयोग्यो द्रव्याद्यन्यतमरूप उपाधिरस्तीति विशेषणविशेष्यभाव एवायमित्यर्थः ।
एवमिति तथा च व्यापकत्वं व्याप्तिनिरूपकत्वं व्याप्यत्वं च व्याप्त्याश्रयत्वमिति व्याप्यव्यापकसम्बन्धोऽप्यतिरिक्त एवेत्याह नापीति तथा च यदि स सम्बन्धो ऽतिरिक्तः एको भवति तदोभयाश्रितत्वं तस्य स्यात् । न चैवमसाधारण्यं विनेति । तथा चोभयनिष्ठोऽसाधारणरूप एको धर्मो नागतः । विशेष्यभावो विशेष्यत्वं विशेषणभावो भवति विशेषणत्वम् । तच्च परस्परं विशेष्य विशेषणे च नास्त्येवेत्यसाधारण्यं नास्तीत्यर्थः । ननु विशेषणविशेष्यभावस्य सम्बन्धत्वेन तर्हि कथं प्रतीतिरित्यत आह उभयेति उभयविषयकं यत्समूहालम्बनात्मकं ज्ञानं यदा भूतलघटाभावावितिरूपं तद्विषयत्वेनोपचारेण सम्बन्धत्वप्रतीतिरूपपादनीया । न तु वस्तुगत्या सम्बन्धत्वमिति भावः ।
प्रत्यासत्तेरिति तथा च यत्र घटो वर्तते तत्राप्यभावस्य कश्चिदतिरिक्तो सम्बन्धो नास्ति । यत्र घटो न वर्तते तत्राप्यभावस्यातिरिक्तः सम्बन्धो नास्ति । तेन यथा घटाभाववति भूतले घटो नास्तीति प्रतीतिर्जायते तथा घटवत्यपि भूतले नास्तीति प्रतीतिः स्यात् । सम्बन्धाभावस्योभयत्र तुल्यत्वादिति। १. B आदिशब्दाद्वि. २. B पदार्थेऽपि अभा. ३. It is नचाभावेति in त. भा. प्र. and as it suits the context it is preferred. ४. B न.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org