________________
१४५
तर्कतरङ्गिणी अतिप्रसक्तिवारणार्थमवश्यं भूतलेन 'समं कश्चित्सम्बन्धो वाच्यः । प्रत्यासत्तिपदेन सम्बन्ध एवविशेषणविशेष्यभाव एव । तथा च यत्र भूतले घटो वर्तते, तेन भूतलेन सममभावस्य विशेषणविशेष्यभावः । सम्बन्धाभावेन न तथापि प्रतीतिः । यत्र घटो नास्ति तत्र तेन भूतलेन सममभावस्य विशेषणविशेष्यभावसम्बन्धसत्त्वेन भूतले घटयभावप्रतीति र्जायते इत्यर्थः । तत उक्तरूपा प्रत्यासत्तिरावश्यकीति तत्कल्पने गौरवं नास्तीति भावः । ननु यथा भूतले घट इति प्रतीत्या संयोगरूपोऽतिरिक्तः सम्बन्धः सिध्यति तथा भूतले घटो नास्तीति प्रतीत्याऽभावस्यापि भूतलेन सममतिरिक्तो कोऽपि सम्बन्ध आयास्यति । अतिप्रसङ्गाभङ्गार्थ स स्वीकर्तव्य एव । तथा च सिद्धान्तभङ्ग इत्यत आह-वस्तुतस्त्विति विशेषतापीति नैयायिकेनेन्द्रियसावद्धविशेषण-तारूप: सम्बन्धोऽभावेन समं स्वीक्रियते । इन्द्रियसम्बद्धं च भूतलादिकम्, तत्र विशेषणंभवत्यभावः । यथा घटाभाववद्भूतलमिति । भूतलमिन्द्रियसम्बद्धं विशेष्यम्, तत्राभावस्य विशेषणत्वात् । अन्यथा घटाभाववद्भूतलमिति विशिष्टबुद्धिरेव न स्यात् । यत्र च ज्ञाने सः विशेषण विशेष्यसम्बन्धो न भासते तत्र तस्य विशिष्टज्ञानानङ्गीकारात् । यथा घटघटत्वयोः निर्विकल्पकत्वम् तत्र घटसम्बन्धस्याभानमिति निर्विकल्पकस्य विशिष्टबुद्धित्वम् तथा प्रकृतेऽपीति । एवमिति अनया च युक्त्या पूर्वोक्त्या सम्बन्धकल्पनाऽऽवश्यकी तथा च चक्षुषोऽभावेन सममिन्द्रियसम्बन्धविशेषणतारूप: सम्बन्धस्तयाऽपि वाच्य एव । अन्यथा घटाभाववद्भूतलमिति प्रतीतेविशिष्टज्ञानत्वमेव न स्यात् । अतिप्रसङ्गभङ्गार्थं स स्वीकर्तव्य एव ।
न प्रमाणान्तरकल्प्नयेति योग्यानुपलब्धेः प्रमाणान्तरत्वं न कल्पनीयमित्यर्थः अनुपलब्ब्येति तव मतेऽपि योग्यानुपलब्ध्याऽपि कुत्रचिदभावो गृह्यते कुत्रचिन्नेति तत्र किञ्चिनियामकं वक्तव्यम् । तत्र च भवतामपीन्द्रियसम्बद्धविशेषणतारूपः सम्बन्धो वाच्य एव । तथा चोभयमते सः सम्बन्धोऽऽवश्यको भवति । न तत्कल्पने गौरवमिति योग्यानुपलब्धिर्नप्रमाणमित्यर्थः ।
इत्यभावग्रन्थव्याख्या ॥
[१५] ॥ प्रामाण्यवादः ॥ प्रामाणस्येति - प्रामाण्यं प्रसङ्गाद्विचारयति । प्रमाणं निरूपितम् । तन्निष्ठो धर्मः प्रामाण्यम्। तत्स्वतो वा ग्राह्यं परतो वेति । परतस्त्वं न्यायमते इत्यर्थः ।
विप्रतिपतिरिति विरुद्धार्थद्वयप्रतिपादकं वाक्यं विप्रतिपत्तिः । यथा ज्ञानप्रामाण्यं
१. B सह. २. B शब्देन. ३. B repeats the reading between सिद्ध्यति............स्वीकर्तव्य after भङ्ग. ४, ५. नैयायिकमते इन्द्रि.. ६. B घटस्याभा. ७. B प्रमाणान्तरं. ८. B omits सः.
तर्क.-१९
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org