________________
१४६
तर्कतरङ्गिणी तदप्रामाण्याग्राहकं यावत् ज्ञानग्राहकसामग्रीग्राह्यं न वा ? अत्र विधिकोटिः मीमांसकानाम्, यावत् ज्ञानग्राहकसामग्रीग्राह्ययत्वरूपा प्रतियोगिनी भावरूपा । नैयायिकेस्तु ज्ञाननिष्ठप्रामाण्ये तदभावः साध्यत इति निषेधकोटिः । तथा च ज्ञाननिष्ठं यत्प्रामाण्यं सः पक्षः तद्वतितत्प्रकाररूपः, तत्र यावत्ज्ञानग्राहकसामग्रीग्राह्यत्वरूपं साध्यं स्वाश्रयग्राहकग्राह्यत्वात् 'तृतीया विप्रतिपत्तिः । यत्र[यत्र]स्वाश्रयग्राह्यत्वं तत्र तत्र ज्ञानग्राहकसामग्रीग्राह्यत्वमस्ति, यथा ज्ञानत्वे स्वशब्देन प्रामाण्यं तस्याश्रयीभूतं यज्ज्ञानं तस्य ग्राहिका या सामग्री अनुव्यवसायादिरूपा तद्ग्राह्यत्वं वर्तते ज्ञानत्वे । 'तत्राप्रामाण्याग्राहके यावद् ज्ञानग्राहकसामग्रीग्राह्यत्वमपि साध्यमस्ति । अथवा हेतुर्यथा तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यत्वात् । यदा वा द्वितीया विप्रतिपत्तिः क्रियते साध्यं तदा प्रथमा विप्रतिपत्तिर्हेतुः क्रियते ।
अथ व्याख्या-ज्ञानगतं प्रामाण्यं ज्ञानप्रामाण्यम् । ज्ञानपददाने प्रामाण्यमात्रपक्षीकरणे चक्षुरादिनिष्ठे प्रामाण्ये बाध: स्यात् । तत्र यावत् ज्ञानग्राहकसामग्रीग्राह्यत्वरूपस्य "साध्यस्याभावात् । ज्ञानग्राहकसामग्र्याऽनुव्यवसायरूपया चक्षुरादिनिष्टं यत्प्रामाण्यं तन्न गृह्यते । ज्ञानविषयकज्ञानेन चक्षुनिष्ठप्रामाण्यस्यातीन्द्रियस्य ग्रहितुमशक्यत्वात् । तद्वारणार्थं ज्ञानपदं देयम् । तथा च ज्ञाननिष्ठं यत्प्रामाण्यं सः पक्षः, तत्र पक्षे तदप्रामाण्येति तत्पदेन प्रामाण्याश्रयीभूतं ज्ञानं ग्राह्यम् । तथा च प्रामाण्याश्रयीभूतज्ञानाप्रामाण्यग्राहिका यावती ज्ञानग्राहिका सामग्री तद्ग्राह्यत्वं ज्ञाननिष्ठ प्रामाण्ये तिष्ठति । तथा चेन्द्रियनिष्ठप्रामाण्ये तदसत्त्वेऽपि न क्षि(क्ष)तिरिति । तस्य पक्षताभावात् पक्षे च साध्यसत्त्वं बाधः । इन्द्रयनिष्ठप्रामाण्यस्यतु पक्षत्वमेव नास्तीति न बाध इति चेत्, न । तथापि ज्ञानपदे दत्तेऽपि बाध तदवस्थ एव स्यात् । ज्ञायतेऽनेनेति व्युत्पत्त्या करणसाधारणं ज्ञानपदं जातं तन्निष्ठप्रामाण्ये पुनर्बाधः ।
पक्षधरमते ज्ञप्तिरेव ज्ञानं तन्निष्ठं यत्प्रामाण्यं स: पक्षः । तथा च तनिष्ठप्रामाण्ये न बाधः । तस्यापक्षत्वात् । तदपि न वाक्यार्थप्रमाकरणं भवति पदज्ञानं तनिष्ठम् । यत्प्रमाकरणत्वरूपं प्रामाण्यं तदपि पक्ष एव । तस्यापि ज्ञाने निष्ठत्वात् । तत्र तदप्रामाण्यग्राहकसामग्रीग्राह्यत्वरूपसाध्यासत्त्वेन बाधस्तदवस्थ एव । तथा च ज्ञानपदे दत्तेऽपि बाधो जात एव । तेन प्रामाण्यपदेन तद्वति तत्प्रकारत्वरूपं ग्राह्यम् । तथा चेदमिच्छासाधारणं जातम् । तत्रेच्छावत्तयानिष्ठप्रामाण्ये ज्ञानग्राहकसामग्रीग्राह्यत्वाभावाद्बाध एव । तस्येच्छाग्राहकसामग्रीग्राह्यत्वात् । तद्वारणार्थं पक्षे ज्ञानपदम् ।
वस्तुतस्तु ज्ञानप्रामाण्यपदेन ज्ञानत्वविशिष्ठं प्रामाण्यं प्राप्यते । तथा च तद्वति तत्प्रकारकज्ञानत्वं फलितार्थः । एतावानर्थो ज्ञानपदोपसन्धानेनैव प्राप्यते । साध्ये ज्ञानपदस्य स्वाश्रयत्वमात्रमर्थः । तथा
१. A omits तृतीया विप्रतिपत्तिः. २. A omits यत्र. ३. B यज्ज्ञान. ४. B साधनस्या..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org