________________
तर्कतरङ्गिणी
१४७
च प्रामाण्याश्रयत्वात्तद्ग्राहकग्राह्यत्वमेतादृशप्रामाण्याश्रयीभूतं च' । अर्थात् ज्ञानमेवायास्यति । तथा च तद्ग्राहिका यावती सामग्री तद्ग्राह्यत्वं प्रामाण्ये तिष्ठत्येवेति न बाधः । अज्ञायमानप्रामाण्ये बाधवारणाय ज्ञानपदं ज्ञायमानपरमित्यपि कश्चित् ।
अयमर्थः-यस्य ज्ञानस्य प्रामाण्यं केनचिदज्ञातं नास्ति, तत्र यावद् ज्ञानग्राहकसामग्री ग्राह्यत्वं नास्तीति बाधवारणाय ज्ञानपदम् । अथ प्रामाण्यग्रहप्रक्रिया यथा तत्र ज्ञानं घोऽयमितिरूपं तन्निष्ठं यत्प्रामाण्यं घटत्ववति घटत्वप्रकारकत्वरूपं स पक्षः, तत्र साध्यं तादृशप्रामाण्याश्रयीभूतं यज्ज्ञानं घोऽयमितिरूपं तस्य यदप्रामाण्यं घटत्वाभाववति घटत्वप्रकारकत्वरूपं तस्यग्राहिका यावती ज्ञानग्राहिका सामग्री तदग्राहित्वम् ।
गुरुमते ज्ञानग्राहिका सामग्री ज्ञानमेव स्वप्रकाशरूपम् । मिश्रमते ज्ञानग्राहिका सामग्री अनुव्यवसाय एव । भाट्टमते ज्ञाततालिङ्गकानुमितिरेव तथा च गुरुमते घोऽयमिति ज्ञानेनैव ज्ञानं, ज्ञानत्वं ज्ञाननिष्ठं च प्रामाण्यं गृह्यते । ग्रहविषयीभूतं प्रामाण्यम् । तथा च तन्मते स्वाश्रयज्ञानविषयत्वं प्रामाण्ये तिष्ठतीत्यर्थः । मिश्रमते पूर्वं घटोऽयमिति ज्ञानमुत्पद्यते व्यवसायः, तदनन्तरं घटमहं जानामीत्यनुव्यवसायः । तेन तस्य ज्ञानस्य प्रामाण्यं गृह्यते । भाट्टमते तु ज्ञाततालिङ्गकानुमित्या प्रामाण्यं गृह्यते । यथा ज्ञातोऽयं घट इति घटत्वमिति घटत्वप्रका रकत्वनिरुपितविषयताश्रयत्वाद् घटस्य । तथा च प्रथमतो ज्ञानं घोऽयमिति जातम् । तदनन्तरं ज्ञातोऽयं घटः इति प्रतिज्ञा । तदनन्तरं ज्ञाततासाधनार्थं हेतुप्रयोगः । यथा घटत्ववति घटत्वप्रकारकत्वनिरुपितविषयताश्रयत्वादिति हेतुः । तेषां मते लिङ्गोपहितलैङ्गिकभानं वर्तते । यथा धूमाद् वह्निमान् इत्यनुमितिः । तथा प्रकृतेऽपि घटत्ववति घटत्वप्रकारकत्वनिरुपितविषयताश्रयोऽयं घटये ज्ञातताश्रय इत्यनुमित्या घटविषयकज्ञाननिष्ठं यद् घटत्ववति घटत्वप्रकारकत्वरूपं प्रामाण्यम् । तद् गृह्यते इति स्वतस्त्वम् ।
तदभावस्तु नैयायिकेन साध्यते । साध्ये व्यावृत्तिर्यथा तदप्रामाण्ये (ण्यमि ) ति । तत्र ज्ञाने यदप्रामाण्यं-प्रामाण्यविरोधि । विरोधित्वं नाम एकावच्छेदेन तज्ज्ञानविरोधिज्ञानविषयत्वम् । तच्छब्देन प्रामाण्यं तद्विषयकं यज्ज्ञानं तद्विरोधि यदज्ञानं तद्विषयत्वम् । तथा चैकतराप्रामाण्यं गृहीत्वा न दोषः । तथा चाप्रामाण्यविरोधिनी यावती ज्ञानग्राहिका सामग्री तद (द् ) ग्राह्यत्वम् । तज्जन्यग्रहविषयतत्त्वं, तथा च ज्ञानजनकसामग्र्याऽनुव्यवसायादिरूपया गृह्यते विषयीक्रियते । तथा च यावत्ज्ञानग्राहकसामग्रीग्राह्यत्वमात्रं यदि साध्यं क्रियते, तदेदं ज्ञानमप्रमा- इयमपि ज्ञानग्राहिका सामग्री भवति । अनया प्रामाण्याग्रहाद् बाध इति तद्वारणार्थमप्रामाण्याग्राहकान्तम् । इयं च सामग्री अप्रमाणग्राहिकेवेति ।
ननु यावत्पदं किमर्थमिति चेत्, 'न । तदा नैयायिकेन मीमांसकं प्रति सिद्धसाधनं कर्तव्यम् । १. A वा. २. B – ग्रहप्रकृति ३. B तदा ज्ञानं. ४ B omits च. ५. A omits न.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org