________________
तर्कतरङ्गिणी
नैयायिकमतेनापि प्रामाण्यज्ञानग्राहकसामग्रीग्राह्यत्वं स्वीक्रियते एव । यथा ज्ञानग्राहिका सामग्री भवति प्रामाण्यानुमितिः यथा - इदं ज्ञानं प्रमा - इति । इयं प्रामाण्यविषयिणी अनुमितिः । अस्यां ज्ञानमपि पक्षज्ञानत्वेन भासते । तथा चानुमितिरूपयाऽपि सामग्र्या प्रामाण्यमपि गृह्यते एवेति सिद्धसाधनम् । तद्वारणर्थं यावत्पदम् । तथा च यावत्सामग्रीमध्ये ज्ञानानुव्यवसायादिकमपि पतितं तेनैव' प्रामाण्यं नैयायिकमतेन गृह्यते इति सिद्धसाधनम् ।
१४८
ज्ञानपदं चेच्छानिष्ठप्रामाण्यसिद्धसाधनवारणार्थम् । इच्छानिष्ठप्रामाण्यमपि अप्रमाण्यग्राहक यावत्सामग्रीग्राहकग्राह्यत्वमस्ति । तव्चेच्छानिष्ठप्रामाण्यमिच्छाग्राहकसामग्र्या' - इच्छाविषयकज्ञानादिरूपया गृह्यत इति । ज्ञानग्राहकपदं तु घटप्रत्यक्षसामग्री चक्षुरिन्द्रियघटसंयोगादिरूपा तया प्रामाण्यं न गृह्यते इति बाधवारणाय । ज्ञानग्राहिकेति घटेन्द्रियसंयोगादिरूपा च सामग्री ज्ञानजनिका भवति न तु ज्ञानग्राहिका । ज्ञानग्राहकत्वं नाम ज्ञातविषयकज्ञानजनकत्वम् । तच्चेन्द्रियसंयोगे नास्ति । तत्प्रत्यात्ममन:संयोगः कारणम् अनुव्यवसाये घटेन्द्रियसंयोगस्याकारणत्वात् । यत्र खण्डशरीरमुत्पन्नं तत्र ज्ञानग्राहिका यावत्कारणमप्रसिद्धं तत्र खण्डशरीरे 'हस्तादिरहितशरीरे ज्ञानमुत्पन्नम् पूर्वं संपूर्णशरीरे हस्तादिशरीरे ज्ञानावच्छेदेन ज्ञानमुत्पन्नम् । तद्ग्राहकं यावत्कारणं संपूर्णशरीरमपि भवति । तच्च खण्डशरीरावच्छेदेनानुव्यवसायकाले नास्तीति बाधवारणाय सामग्रीपदम् । तथा च सामग्रीपदेन चरमकारणमुच्यते । 'तच्चानुव्यवसायरूप एवेति सामग्रीपददाने न बाधः । तद्ग्राहकत्वं च तत्रास्त्येवेति न बाधः । अपि च यदि सामग्रीपदं न दीयते तदा तदप्रामाण्याग्राहकयावत्ज्ञानग्राहक ग्राह्यत्त्वम् । ग्राह्यत्वं नाम " तज्जन्यग्रहविषयत्वम् । तथा चात्मजन्यं घटादिविषयकज्ञानमपि भवत्येव । तथा च घटविषयकज्ञानविषयत्वं घटे वर्तते । न च प्रामाण्ये तद्बोधः । तद्वारणार्थं सामग्रीपदम् । आत्मा तु ज्ञानं प्रति कारणं यद्यपि भवति तथापि सामग्री न भवति । सामग्री च सैवोच्यते यदनन्तरमविलम्बेन कार्योत्पत्तिरिति । तदपि नात्मनः । अप्रामाण्यग्राहकपदेनैव वारणात् । अप्रामाण्यमप्यात्मना गृह्यते इति तद्वारणम् ।
विधिप्रसिद्धस्तु तद्ज्ञानतद्विषयादावेव । यथा घटोऽयमिति ज्ञाने ज्ञानग्राहकसामग्री घटेन्द्रियसंयोगरूपः (पा) इयं ज्ञानग्राहिका सामग्री भवति । तद्ग्राह्यत्वं घटादीनां वर्तते इति ज्ञानग्राहकग्राह्यत्वप्रसिद्धि । ननु 'यावत्' इति कस्य विशेषणम् ? ज्ञानस्य ग्रहस्य वा ? सामग्र्या वा तज्जन्यग्रहस्य वा ? यदुच्यन्ते यावन्ति तादृशज्ञानानि तेषां या ग्राहिका सामग्री तद्ग्राह्यत्वम्, तदा नैयायिकेन सिद्धसाधनं कर्तव्यम् । तथाहि यावन्ति प्रामाण्याश्रयीभूतज्ञानानि तद्विषयको यो ग्रहः, सामान्यलक्षणाप्रत्यासत्तिजन्यज्ञानत्वं सामान्यलक्षणाप्रत्यासत्त्या ज्ञानमात्रविषयकं ज्ञानं जातम् ।
१. A तेन च २. B सामग्र्यमिच्छा. ३. Bomits ज्ञात ४ B omits हस्तादिरहितशरीरे. ५. Pl. add पूर्वं संपूर्णशरीरे = हस्तादिशरीरे ज्ञानावच्छेदेन ज्ञानमुत्पन्नम् । ६. B तथा चानु.. ७. B तदजन्य..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org