________________
तर्कतरङ्गिणी
१४९ तज्जनिका या सामग्रीविशेषणत्वज्ञानादिसमवहिता' सामग्री तज्जन्यो यः सामान्यलक्षणाप्रत्यासतिजन्यो ग्रहस्तद्विषयत्वं प्रामाण्यमात्रस्यास्तीति सिद्धसाधनम् ।
नापि द्वितीयः । तथा च तादृशप्रामाण्याश्रयज्ञानविषयकयावत्ज्ञानजनकसामग्रीग्राह्यत्वमिति पर्यवसितोऽर्थः ।
तथा चाप्रसिद्धिः । तादृशयावद्ग्रहजनकसामग्र्यप्रसिद्धः । न च सामग्र्यैव यावत्विशेषणमिति वाच्यम् । तादृशप्रामाण्याश्रयज्ञानविषयकग्रहजनकयावत्सामग्रीजन्यग्रहाप्रसिद्धः ।
अयमर्थः-एतादृशं ज्ञानं नास्त्येव । यज्ज्ञानं यावत्सामग्र्या जन्यते घटादिसामग्र्या जननात्। न तज्जन्येति पक्षः सामग्रीजन्यग्रहस्य विशेषणं यावत्त्वमिति वाच्यम् । घटत्ववति घटत्वप्रकारकत्वं पटत्ववति पटत्वप्रकारकत्वादि । तत्र प्रामाण्याश्रयज्ञानविषयकं ग्रहजनकसामग्रीजन्यं यावद ग्रहविषयत्वस्य कस्मिंश्चिदपि प्रामाण्येऽसत्त्वाद्वधः ।
अयमर्थः-प्रामाण्यविषयकं यावज्ज्ञानं तज्जनिका काप्येका सामग्री न भवतीति बाधः । तस्मात् यावत्पदं कस्य विशषणमिति चेत्, उच्यते । यावत्वं व्यापकत्वम् । तथा च ज्ञानप्रामाण्यं तदप्रामाण्यग्राहकज्ञानग्राहकसामग्रीजन्यग्रहत्वव्यापक-विषयत्वप्रतियोगिविषयताश्रयि इति साध्यम् ।
अस्यार्थः-तस्य ज्ञानस्य प्रामाण्यग्राहिका ज्ञानग्राहिका या सामग्री तज्जन्यो यो ग्रहो ज्ञानं तत्त्वस्य ज्ञानत्वस्य व्यापकं यद्विषयत्वं तत्प्रतियोगिनी या विषयता तदाश्रयत्वं प्रामाण्ये तिष्ठति । यथा घटोऽयमिति ज्ञाननिष्ठं यत्प्रामाण्यं तत्राप्रामाण्याग्राहिका ज्ञानग्राहिका या सामग्री ज्ञानत्वज्ञानादिका, तज्जन्यो यो ग्रह: घटमहं जानामीतिरूप: “सः त्वस्य व्यापिका या विषयिता सम्बन्धविशेषा[तद्] फले एकोनेयः । तत्प्रतियोगिनी विषयिता प्रामाण्ये तिष्ठति, तदाश्रयत्वं प्रामाण्येऽस्तीति भावः । तथा च यावत्पदस्यार्थः तादृशसामग्रीजन्यग्रहत्वव्यापिकेत्यस्यार्थः।
ननु ग्राह्यत्वं किं नाम ? यदि ज्ञानमात्रजनकत्वं तदा घटज्ञानजनकत्वं कालादावप्यस्ति । तस्यापि प्रामाण्यग्राहकत्वं स्यात् । तथा च प्रामाण्याश्रयीभूतज्ञानविषयकज्ञानजनकत्वं ग्राहकत्वं कालादाविदं नास्ति यद्यपि जन्यमानं प्रति कालस्य कारणत्वमस्ति । तदा घटेन्द्रियसन्निकर्ष इति प्रसङ्गो देयः । यथा घटोऽयमिति ज्ञाननिष्ठं यत्प्रामाण्यं तदाश्रयीभूतं यज्जानं घटोऽयमितिरूपं तद्ग्राहकत्वं तद्विषयकज्ञानजनकत्वम् । "तद्विषयकं ज्ञानं भवति तदनुव्यवसायः । तज्जनिका या सामग्री सैव तद्ग्राहकपदेनोच्यते । तथा च प्रामाण्याश्रयीभूतज्ञानविषयकज्ञानजनिका या सामग्री सा ज्ञानग्राहकपदेनोच्चयते । तिग्राह्यत्वं तु तज्जन्यग्राहविषयत्वम् । ज्ञानग्राहिका च सामग्री
१. B समवेता. २. B त्वमिति प्रामाण्यं पर्यवसन्नमतो यावदर्थः । ३. A सामग्री ग्रहजन्यस्य, ४. B तत्त्वस्य. ५. B omits the reading between तद्विषयकं...............ज्ञानजनिका. ६. B तदग्रा..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org