________________
१५०
तर्कतरङ्गिणी आत्ममनःसंयोगादिरूपा जाता । तद्ग्राह्यत्वं-तज्जन्यो यो ग्रहोऽनुव्यवसायादिरूपः तद्विषयत्वं यथा ज्ञाने तिष्ठति तथा प्रामाण्येऽपीति ।
मिश्रमते यथाऽनुव्यवसायस्य विषयो भवति व्यवसाय: 'तथा प्रामाण्यमप्यनुव्यवसाय विषयः अनुव्यवसायेन जन्यते । मुरारिमते चैतत् । गुरुमते तु ज्ञानग्राहिका सामग्री आत्ममन:संयोगादिरूपा । तद्विषयकं ज्ञानं तदेव तज्जनिका या सामग्री आत्ममनः संयोगादिरूपा तज्जन्यं ज्ञानं तदेव व्यवसायरूपं तद्विषयकत्वं यथा ज्ञाने तिष्ठति तथा प्रामाण्येऽप्यस्तीति गुरुमतम्। भाट्टमते 'तु ज्ञानग्राहिका सामग्री ज्ञाततालिङ्गकानुमितिर्यल्लिङ्गज्ञानं पूर्वकृतहेतुः, तज्जन्या याऽनुमिति: ज्ञाततालिङ्गकानुमितिः, तद्विषयत्वं-तत्सम्बन्धित्वम् ।
___ अयमत्र प्रघट्टः-ज्ञानग्राहकत्वं नाम ज्ञानविषयकं यज्ज्ञानमनुव्यवसायादिरूपं तस्यानुव्यवसायादेर्यज्जनकं-आत्ममनः संयोगरूपा-मनोघटिता, न्यायमते चानुमानघटिता, तया मनोघटितया प्रामाण्यं गृह्यते । कोऽर्थः ? तज्जन्यज्ञानेनानुव्यवसायादिरूपेण । न्यायमते चैतदनुमानजन्यं ज्ञानमनुमितिरूपम् । तया च प्रामाण्यं विषयीक्रियते । तथा च प्रामाण्यानुव्यवसाययोविषयविषयिभावः सम्बन्धः । प्रामाण्यं भवति विषयः, अनुव्यवसायो भवति विषयी । यथाऽनुव्यवसायस्य घटोऽयमिति ज्ञानं विषयः, यथा ज्ञानस्य विषयः ज्ञानम् । यतः मानसं प्रत्यक्षमनुव्यवसायरूपं तत्तु आत्ममन:संयोगजन्यं तथा प्रामाण्यस्यानुव्यवसाय एव ज्ञानम् । तेनानुव्यवसायेन प्रामाण्यं विषयीक्रियते ।
नन्वनुव्यवसायादिना प्रामाण्यं गृह्यते चानुव्यवसायादिजनकसामग्र्या मनोघटितादिरूपतया । यथा चक्षुरिन्द्रियेण घटो गृह्यते, चक्षुरिन्द्रियजन्यज्ञानेन विषयीक्रियते, तद्वदनुव्यवसायादेः प्रामाण्यं विषयः । स्वतस्त्वं च प्रामाण्यस्य यावत् ज्ञानग्राहकसामग्रीग्राह्यत्वं परिभाषिकम् । यथा घटमहं जानामीतिज्ञाने घटो विषयो भवति घटत्वं च विषयः, तद्विषयकं च व्यवसायरूपं ज्ञानं विषयः, घटघटत्वयोः५ सम्बन्धोऽपि विषयः । अथ च ज्ञाननिष्ठं यज्ज्ञानत्वं तदपि विषयः, तद्व्यवसायनिष्ठं प्रामाण्यमपि घटत्ववति घटत्वप्रकारकत्वमपि विषयः । यथाऽनुव्यवसाये घटो भासते, घटत्वं भासते, घटघटत्वयोः सम्बन्धो भासते तथा घटे घटत्वमपि भासते । इदमेव मीमांसकमते स्वतस्त्वम् ।
नैयायिकेनोच्यते-प्रामाण्यमुक्तरूपं न भासते । तस्यानुव्यवसायात् पूर्वमभावत्वादस्थितत्वान्न भासतेऽनुव्यवसाये । तथा पूर्वमनुपस्थितस्य प्रकारकत्वं न सम्भवतीति परतस्त्वम् ।
अत्र मीमांसकानामयमा शयः-घटोऽयमिति ज्ञाने प्रामाण्यं चेदं घटत्वावच्छिनघटनिष्ठ१. B omits the reading between तथा..............नुव्यवसाय. २. B यथाऽनुमाने. ३. B om its तु. ४. B omits विषयः. ५. B -त्वयोरपि. ६. B omits ऽपि. ७. A -यमभिप्रायः.
___ Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org