________________
तर्कतरङ्गिणी
विशेष्यतानिरूपितविषयत्वमिदमेकं दलम् । (१) द्वितीयं च घटत्वनिष्ठप्रकार-कतानिरूपितप्रकारित्वम् (२) । तृतीयं दलं यथा घटत्वनिरुपितसमवायिनिष्ठसंसर्गारव्यविषयता निरूपितविषयत्वम् । (३) इदं त्र्यात्मकं 'स्वरूपं भवति प्रामाण्यम् । इदं च योग्यव्यक्तिवृत्तित्वाद् योग्यमेव प्रामाण्यम् । नातीन्द्रियम्। तथा च यथाऽनुव्यवसायेन व्यवसायरूपज्ञाननिष्ठं ज्ञानत्वं विषयीक्रियते, तस्य योग्यव्यक्तिर्ज्ञानरूपा, तद्वृत्तित्वेन तस्यापि योग्यत्वात् । तथा च ज्ञानत्वमपि योग्यम् । तदप्यनुव्यवसायेन विषयीक्रियते । तथा च पूर्वोक्तं त्र्यात्मकंप्रामाण्यमपि व्यवसायनिष्ठमनुव्यवसायादिना विषयीक्रियते । तस्यापि योग्यत्वात् । यदि चानुव्यवसायादिना प्रामाण्यं विषयीक्रियते तदा ज्ञानत्वमपि न विषयीक्रियताम् । तुल्यन्यायात् । ततः स्वतस्त्वमेव । न च तस्य पूर्वानुपस्थितत्वात् कथं प्रामाण्यविषयः तस्य ज्ञानधर्मत्वेनानुव्यवसायात् पूर्वज्ञानस्य ज्ञानं ज्ञातमेव नास्ति इति कथं तद्धर्मोपस्थितिरिति वाच्यम् । क्वचित् पूर्वानुपस्थितिम(र)पि विषयीभवत्येव, प्रतियोगित्वाभावत्ववत् । यथा घटये नास्तीत्यत्र घयभावप्रत्यक्षे पूर्वमनुपस्थितं घटाभावत्वं घटनिष्ठप्रतियोगित्वं च भासते । तथा प्रकृते प्रामाण्यं पूर्वोक्तत्रयात्मकं ज्ञानधर्मानुपस्थितोऽ (म)पि विषयीभवतीति दिक् । अयमत्र तात्पर्यार्थः-व्यवसायनिष्ठं यत्र त्रयात्मकं प्रामाण्यं तच्च नैयायिकैरपि व्यवसायरूपज्ञानादतिरिक्तपदार्थत्वेन नाङ्गीक्रियते । न्यायमतेऽपि प्रकारित्वं विशेष्यीयत्वं संसर्गित्वं स्वरूपसम्बन्धविशेष एव । तथा च व्यवसायात्मकं ज्ञानस्वरूपमेव प्रामाण्यं जातम् । तच्चानुव्यवसायादिना विषयीक्रियते । अनुव्यवसायेन व्यवसायरूपज्ञानं विषयीक्रियते एव । ज्ञानग्रहे च तत्स्वरूपं विषयो भवत्येवेति प्रामाण्यग्रहार्थमतिरिक्तग्राहकल्पना ज्यायसीति मीमांसकाः ।
प्रकृतं प्रस्तूयते - अत्र विप्रतिपत्तिरिति पूर्वोक्तार्थप्रामाण्यमिति पक्षः । मीमांसकमात्र सम्मता या प्रामाण्यग्राहिका सामग्री तद्ग्राह्यत्वम् । अत्र 'मात्र' पदेन मीमांसकाभिमता सत्त्वापि सामग्री ग्राह्या । मीमांसकत्रयातिरिक्तेन या प्रामाण्यग्राहकत्वेन सामग्री न स्वीक्रियते, अथ च मीमांसकैरेव या सामग्री स्वीक्रियते तद्ग्राह्यत्वं मीमांसकानां मते साध्यम् ।
-
Jain Education International 2010_05
१५१
अत्रेति - यदि मात्रपदं न दीयते साध्ये तदा नैयायिकेन मीमांसकं प्रति सिद्धसाधनं कर्तव्यम् । तदेवाह नैयायिकाभिमतेति नैयायिकाभिमता सामग्री अनुमितिरूपा तयाऽपि प्रामाण्यं विषयीक्रियते । इयं सामग्री प्रामाण्यग्राहकत्वेन मीमांसकाभिमता भवति । कदाचित् प्रामाण्यस्यानुमानेनापि ग्रहात् । तथा चानभ्यासदशायां प्रामाण्यमनुमानेनापि ग्रहात् । तथा चानभ्यासदशायां प्रामाण्यमनुमानेन विषयीक्रियते । अभ्यासदशायां चानुव्यवसायादिनाऽपि विषयीक्रियते । तथा च प्रामाण्येऽऽनुमानिकज्ञानविषयत्वमादाय सिद्धसाधनं कृतम् । तद्वारणार्थं मात्रपदं दत्तम् । एतदस्तु । आनुमानिकज्ञानादिसामग्री मीमांसकमात्राभिमता न भवति । १. B omits स्वरूपं २. B घटत्वप्रति ३ B सिद्धिसा and omits कृतम् ४. B कृतम् ।
For Private & Personal Use Only
www.jainelibrary.org