________________
१५२
तर्कतरङ्गिणी नैयायिकैरपि तस्यां प्रामाण्यग्राहकत्वेनाङ्गीकृतत्वादित्यर्थः । मात्रपददत्तेऽपि बाधः ।
शङ्कते-१ न चेति यस्मिन्नप्रामाण्यविशेषे मीमांसकमात्राभिमता सामग्री न मिलिता=ऽनुव्यवसायादिजनका सामग्री न मिलिता, तत्र साध्यसत्त्वेन बाध इत्याशङ्कार्थः ।
उत्तरयति-जातेति तथा च जाता उत्पन्ना या मीमांसकाभिमता सामग्री, तया ज्ञानप्रामाण्यं गृह्यत इति पक्षः । तथोत्पन्नसामग्रीकप्रामाण्यस्य न पक्षत्वमिति न बाध इति भावः ।
एषैवेति मीमांसकमात्राभिमता या प्रामाण्यग्राहिका सामग्री तद्ग्राह्यत्वमिति विधिकोटिर्भावरूपा प्राप्यत इत्यर्थः । ज्ञानेति-ज्ञानग्राहिका याऽनुव्यवसायजनकीभूता सामग्री मनोघटिता मनःसंयोगादिरूपा तदतिरिक्ताऽनुमानादिरूपा सामग्री, तदपेक्षत्वमेव स्वतस्त्वम् । अस्यापीति "ज्ञानग्राहिकाऽतिरिक्तेत्यादिका या मीमांसकमात्राभिमता' प्रामाण्यग्राहिकासामग्री [तद्]ग्राह्यत्वे तात्पर्यमित्यर्थः । तदर्थ इति ज्ञानग्राहकातिरिक्तानपेक्षत्वस्यार्थो न ज्ञानग्राहकग्राह्यत्वम्। एतावत्युक्ते हि नैयायिकेनापि सिद्धसाधनं कर्तव्यम् । तथा च पूर्वम[स्म]दुक्ततात्पर्य एवार्थः ।
यावदिति सिद्धसाधनतावारणार्थं यावदिति विशेषणीयम् । तथाऽत्र यावद्ज्ञानग्राहकग्राह्यत्वं फलितम् । इदं दूषयति-ज्ञानमस्तीत्यादिकेति तथा च ज्ञानग्राहिका सामग्री ज्ञानपदमपि जातम् । तत्तु पदं ज्ञानग्राहकं भवत्येव । तेन प्रामाण्यं न गृह्यत इति बाधः । “यावत् सामग्री मध्ये एतस्यापि संग्रहो वृत्तिरिति भावः । पुनर्दूषणान्तरमाह अप्रामाण्येति यावत् ज्ञानग्राहकसामग्रीमध्येऽप्रामाण्यग्राहिकाऽपि सामग्री पतिता-इदं “ज्ञानमप्रमेतिरूपा, तया प्रामाण्यं न गृह्यत इति बाधः । तथा चेदमेव लक्षणं कर्तव्यम् । मीमांसकमात्राभिमतप्रामाण्यग्राहिका या सामग्री तद्ग्राह्यत्वमेव साध्यम्। अप्रामाण्यग्राहिका तु सामग्री मीमांसकमात्राभिमता न भवति । १०अप्रामाण्यग्राहिकायाः प्रामाण्यग्राहिकत्वं मीमांसक नैयायिकानामङ्गीकारादिति भावः ।
परत इति न्यायमते परतस्त्वमुपपादयतीत्यर्थः । जलादीति एतदारभ्य वस्तुगतिरित्यन्तो मूलग्रन्थः न्यायमतसिद्धान्तार्थः । कस्मिंश्चिदिति जलविशेषे जलज्ञानं जातम् । ततः प्रामाण्यग्रह: प्रत्यक्षानुमानादिना ९० जातस्तदनन्तरम् । तदृष्टान्तेनेति तदृष्टान्तविधया। तज्जातीयत्वेनेतति लिङ्गेन हेतुना तज्जातीयत्वेन प्रामाण्यमवधार्यतेऽनुमीयत इत्यर्थः । यथा-'इदं जलज्ञानं प्रमा, समर्थप्रवृत्तिजनकत्वात्, पूर्ववर्तिजलज्ञानवत् ।, साजात्यं तु समर्थ प्रवृत्तिजनकत्वेन रूपेण द्वयोरप्युचितम् । तथा चेदमेवमनुमानेन प्रामाण्यज्ञानमात्रस्य परतस्त्वम् ।। १. It is नहीति in त.भा.प्र. २. B मीमांसकाभिमता. ३. It is एषेति in त.भा.प्र. ४. It is तस्यापि in त.भा.प्र. ५. B मीमांसकाभि. ६. B तथा च. ७. B Inserts here - तथा चेदं लक्षणं. Pl. see ९.८. B ज्ञानं प्रमे.. ९. B PI. See footnote no. ७. १०. A प्रामाण्यग्रा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org