________________
तर्कतरङ्गिणी
१५३ कश्चिदितीति तथा च प्रामाण्यज्ञानमेव प्रकृत्यङ्गम् । न तु प्रामाण्यनिश्चय एव । तथा सति प्रामाण्यसन्देहे जलाथिनः पिपासोः प्रवृत्ति न स्यात् । तथा च न्यायमते सन्देहनिश्चयसाधारण्यम प्रामाण्य ज्ञान प्रवृत्त्यङ्गमित्यर्थः ।
उपलक्षणमिति - यस्य पुरुषस्य प्रामाण्यनिश्चयो ऽपि नास्ति सन्देहोऽपि नास्ति, तस्यापि पुरुषस्यार्थज्ञानमात्रादेव 'जलादिज्ञानमात्रादेव प्रवृत्तदृश्यते । तथा च सन्देहनिश्चयसाधारण्य प्रामाण्यज्ञानप्रवृत्ति प्रति कारणं न भवति । प्रवृत्तिस्तु जलज्ञानमात्रादेव ।
__शङ्कते-३ प्रामाण्यनिश्चयत्वाङ्गत्वेन वेति निष्कम्पा प्रवृत्तिनिश्चयजन्य प्रवृत्तौ प्रामाण्यनिश्चय एव हेतुरित्याशङ्कार्थः ।
अप्रामाण्येति अप्रामाण्यशङ्काशून्यो योऽर्थनिश्चयः तस्मादेव प्रवृत्तिर्भविष्यतीति किमर्थं तत्र प्रामाण्यनिश्चयस्य हेतुत्वम् । यत्र ज्ञानेऽप्रामाण्ये शङ्काः नास्ति तत्रार्थमात्रादेव प्रवृत्तिः । अर्थनिश्चयांच्च निष्कम्पा प्रवृत्तिरित्यर्थः ।
न्यायमतहार्दै स्पष्टयति-एवं चेति - इति नैयायिकाशयः । इतीति किमनुमितौ पक्षज्ञानं कारणम् । तदनुरोधेन पक्षताज्ञानानुरोधेन । तथा च प्रथमतः प्रामाण्यज्ञानमवश्यमपेक्ष्यते । “सन्देहे चेति सन्देहं प्रति धर्मिज्ञानं कारणम् । यथा पुरोवर्तिनि उच्चस्त्वादिनि धर्मिणि पुरुषत्वस्थाणुत्वसन्देहो जायते। तदनुरोधेन सन्देहानुरोधेन मीमांसकाभिमताऽपि सामग्री वृत्ता । तस्याः प्रामाण्यग्रहणेन स्वतस्त्वं वक्तुं युक्तम् । अयमत्र भावः-यथेदं ज्ञानं प्रमेत्याद्यनुमितिर्जायते तत्र पक्षो भवति ज्ञानम् । तज्ज्ञानं च प्रामाण्यानुमित्तेः पूर्वमुभयमतेऽप्यङ्गीकर्तव्यमेव । पक्षज्ञानत्वात् । तथा च ज्ञानस्य यज्ज्ञानं तदनुव्यवसाय एव, तज्जनिका च सामग्री मनोघटिता तिष्ठत्येव । इयं च सामग्री उभयसम्मता भवति। तथा च प्रामाण्यं न गृह्यते अग्रेऽनुमितिर्भविष्यत्वात् । अन्यथा प्रामाण्यविषयिणी अनुमितिरेव न स्यात्। प्रामाण्यसिद्धेः सत्त्वादनुमिति प्रति सिद्धेः प्रतिबन्धकत्वस्वीकारात् । तथा च तत्र प्रामाण्यानुमितिरेव विषयो, नानुव्यवसायस्यानुमित्यनुत्पादकरूपबाधकादेवेत्याशयः । तथा च परतस्त्वं प्रामाण्यस्य सिद्धमित्यर्थः ।
अयं भावार्थ:-यत्र प्रामाण्यविषयिण्यनुमितिर्जायते इदं ज्ञानं प्रमेतिरूपा तत्र पक्षज्ञानंज्ञानमेव-ज्ञानमपेक्षते । पक्षज्ञानं चोभयमतेऽनुमिति प्रति कारणं भवति । तथा च "प्रामाण्यविषयकानुमितिस्थले मीमांसकाभिमता सामग्री पक्षज्ञानरूपा तिष्ठत्येव च । पुनः संशये धर्मे ज्ञानानुरोधेनेदं ज्ञानं प्रमा न वेति सन्देहः । तं प्रति धर्मि यत्र ज्ञाने प्रामाण्यविषयक: सन्देहः, तद्धर्मिज्ञानम् । तथा १. B omits the reading between ऽपि....................सन्देहोऽपि. २. B omits जलादिज्ञानमात्रादेव. ३. It is प्रामाण्यनिश्चयत्वेन प्रामाण्यज्ञानत्वेन वेति in त.भा.प्र. ४. It is संशये in त.भा.प्र. ५. A प्रामाण्यानमिति.
तके.-२०
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org