________________
१५४
तर्कतरङ्गिणी च ज्ञानस्य यज्ज्ञानं तस्यैव धमित्वम् । ततस्तस्य ज्ञानमवश्यमपेक्षणीयमेव । इयमपि मीमांसकाभिमता सामग्री वर्तते । तथा च प्रामाण्यं न गृह्यते । तथा चानुमित्यैव प्रामाण्यं ग्राह्यमिति न स्वतस्त्वमिति भावः ।
इदानीं मीमांसकमताशयं दर्शयति प्रामाण्यज्ञानत्वेनेति प्रामाण्यज्ञानं जनकम्, प्रवृत्तिश्च जन्या-इति प्रवृत्ति प्रति कार्यकारणभावानुरोधेन प्रथमतः प्रामाण्यज्ञानमपेक्ष्यते । अन्यथा प्रवृत्तिरेव न स्यात् । कारणव्यतिरेकेण कार्यानुपपत्तेः । प्रवृत्तिश्च जलज्ञानानन्तरमव्यवहितोत्तरक्षणे जलार्थिनो दृश्यते। ततो जलज्ञानसमये प्रामाण्यज्ञानमपि जातमिति स्वीकर्तव्यमेव ।
तथा च गुरुमते स्वेनैव प्रामाण्यं गृह्यते । मिश्रमते तु प्रथमतो जलज्ञानं जातम् । ततो द्वितीयक्षणेऽनुव्यवसायः । तेनैव प्रामाण्यं द्वितीयक्षणे विषयीक्रियते । तथा चाव्यवहितोत्तरक्षणे प्रामाण्यमनुव्यवसायादिना विषयीक्रियते । 'अव्यवहितोत्तरत्वं च स्वाधिकरणक्षणध्वंसाधिकरण इति ध्वंसानाधिकरणत्वे सति स्वाधिकरणक्षणध्वंसाधिकरणत्वम् । यथा स्वशब्देन जलादिज्ञानं तस्य यः क्षणोऽधिकरणमुत्पत्तिक्षणस्तस्य यो ध्वंसः, 'तस्य यदधिकरण क्षणो द्वितीयक्षणस्तस्य यो ध्वंसस्तदनधिकरणत्वे सति द्वितीयस्य शब्देनापि जलज्ञानम् । तस्य यदुत्पत्तिक्षणस्तस्य यो ध्वंस: तदधिकरणत्वमिदं जलज्ञानोत्पत्तिक्षणापेक्षया द्वितीयक्षणमात्रे तिष्ठति नान्यत्रेति जलज्ञानाव्यवहितोत्तरत्वं सत्यन्तकृत्यम् । यथा तृतीयक्षणेऽव्यवहितोत्तरत्ववारणाय द्वितीयक्षणेन व्यवधानात् । अन्यथा विशेष्यभागमात्रोपादाने स्वाधिकरणक्षणध्वंसाधिकरणत्वम्, यथा द्वितीये क्षणे तिष्ठति तदा तृतीयक्षणादावप्यस्तीति । तद्वारणार्थं सत्यन्तं विशेषणम् । तथा च विशेषणपदं स्वाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसिनो ऽधिकरणत्वं तृतीयक्षणादौ नास्ति । तृतीयक्षणस्य जलज्ञानोत्पत्तिक्षणध्वंसाधिकरणद्वितीयक्षणध्वंसाधिकरणत्वात् । द्वितीयक्षणस्तु द्वितीयक्षणध्वंसा-धिकरणो न भवतीति विशेषणदलम् । विशेष्यदलं तु जलज्ञानोत्पत्तिक्षणात् तत्पूर्वक्षणादिवारणार्थम् । तथा च जलज्ञानोत्तरक्षणापेक्षया तत्पूर्वक्षणस्याव्यवहितोतरत्वं नास्ति । तस्य पूर्वक्षणत्वात् । यदि च विशेष्यमात्रोपादानं जलज्ञानोत्पत्तिपूर्वक्षणेऽतिव्याप्तिः, तत्रापि स्वाधिकरणक्षण-ध्वंसाधिकरणक्षणध्वं-सानधिकरणत्वस्य वर्तमानत्वात् । तदर्थं विशेष्यदलम् । प्रथमक्षणस्तु विशेष्यदलेनैव वारितस्तत्र यद्यपि विशेषणदलं सत्यन्तं तिष्ठति तथापि स्वाधिकरणक्षणध्वंसाधिकरणत्वस्य वर्तमानरूपं विशेष्यदलं नास्तीति ।
तथा च जलज्ञानाव्यवहितोतरक्षणे योज्यतेऽनुव्यवसायः यथा जलमहं जानामीत्येवरूपः, तेन प्रामाण्यं मिश्रमते विषयीक्रियते । तदनन्तरं तृतीये क्षणे प्रवृतिर्जायते । प्रामाण्यज्ञानरूपकारणस्य
१. Pl. add तथा च चाव्यवहितोत्तरक्षणे प्रामाण्यमनुव्यवसायादिना विषयीक्रियते । २. B omits the reading between तस्य........यो ध्वंस. ३. B -यत्रेत्युत्पत्ति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org