________________
तर्कतरङ्गिणी
१४३ सम्बन्धाभावाद् व्यभिचारः । -हेत्वर्थः यद्वेति चक्षुः श्रोत्रे इत्यनुमाने इन्द्रियत्वादयं हेतुः । चक्षु श्रोत्रे इति पक्षः । वस्तु प्राप्यप्रकाशकत्वं साध्यम् । तथा च यत्र यत्रेन्द्रियत्वं तत्र तत्र वस्तुप्राप्यप्रकाशकत्वम्।
अत्र मनसि व्यभिचारवारणार्थमिन्द्रियत्वे हेतोः बहिर्पदं विशेषणं देयम् । तथा च बहिरिन्द्रियत्वाद इति हेतुः । तेन मनसि हेतुरपि नास्तीति भावः ।
सम्पातयातमिति अर्थादायातमित्यर्थः । तथा चक्षुरिन्द्रियादिना घटाद्यभावविषयकं प्रत्यक्षं जन्यते तदा घटाद्यभावेन समं चक्षुरादि विशेषणविशेष्यभाव एव सम्बन्धः । असम्बद्धस्येन्द्रियेण ज्ञानाजननात् । यथेह भूतले घटो नास्तीति अभावप्रत्यक्षं चाक्षुषं भवति । इन्द्रियसम्बद्धे भूतलेऽभावस्य विशेष्यत्वात्, भूतलस्य विशेषणत्वात् । तत इन्द्रियेण सम्बद्धं यद् भूतलवृत्तिमत्त्वमेवाभावेन समं सन्निकर्षः । चक्षुः संयुक्तभूतलवृत्तित्वमेव सम्बन्धः । भूतले वृत्तित्वं चात्रातिरिक्तः पदार्थो [न]भवति, किन्त्वभावरूपमेव । अयमेव विशेषणविशेष्यभावः सम्बन्धत्वेन गीयते ।
___ इदं मूलकारो दूषयति-न च विशेषण विशेष्यभावस्तथेति तथा एकोऽयं न भवति, उभयाश्रितो न भवति सम्बन्धाभ्यामतिरिक्तो न भवति-इति न सम्बन्ध इत्यन्वयः । भिन्नत्वाभावादिति तथा च विशेषणविशेष्यभावो न सम्बन्धः । सम्बन्धिभ्यां भिन्नत्वाभावात् । एवमुभयाश्रिततत्वाभावात्, एकत्वाभावाच्च । घटपटोभयादिवत् ।
दव्यादीति यथा घटाभाववद्भूतलमित्यत्र घटाभावो भवति विशेषणम् । तत्र विशेषणत्वं नाम अभावस्वरूपमेव । न च तत्राभावे द्रव्याद्यन्यतमत्वमेव [इति]वाच्यम् । तत्राभावे द्रव्याद्यन्यतमत्वस्यातिरिक्तस्याभावात् । तथा च विशेषणत्वं च विशेष्यत्वं चाभावस्य स्वरूपसम्बन्धः । यथा यदा घटाभाववद्भूतलमिति प्रत्यक्षं जायते तदा घटाभावो भवति विशेषणम्, भूतलं भवति विशेष्यम् । “यदा च भूतले घट नास्तीति प्रत्यक्षं जायते तदा घटाभावो विशेष्यो, भूतलं भवति विशेषणम् । -प्रथमपक्षे भूतलाधिकरणको घटप्रतियोगिकोऽभावः । तथाऽधिकरणत्वोपरि भूतलं विशेषणत्वेन भासते । यदा च भूतलमिति प्रथमान्तं तदाऽभावनिष्ठाधेयतानिरूपकाधारतावद भूतलमित्यत्राधेयतोपर्यभावो विशेषणत्वेन भासते इति प्रतीतिभेदः । ज्ञानस्योभयत्र प्रकारत्वं कृतं वैलक्षण्यमिति विशेष्यो ज्ञेयः । प्रकारत्वं भासमानवैशिष्ट्यप्रतियोगित्वम् । वैशिष्ट्यं नाम सम्बन्धः । तन्निरूपकत्वं विशेषणनिरूपितं वैशिष्ट्यं विशेषो भासते । यतो विशेषणज्ञाने प्रथमतो विशिष्टबोधो भासते । ततस्तन्निरूपितं वैशिष्ट्यं विशेष्ये भासते इति द्रव्यादीति । अभावे द्रव्याद्यन्यतमत्वं पदार्थान्तरं न वर्तते । ततस्तत्र यदि पदार्थान्तरं कल्प्यते तदा गौरवमेव दोष इत्यर्थः ।
१. B तत्र. २. B omits the reading between घटाद्यभाव....जन्यते. ३. B न तदा. ४. B omits the reading between यदा च....भवति विशेषणम् । ५. B -स्योभयप्रका..
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org