________________
१४२
तर्कतरङ्गिणी ___ अत्र तु फलायोगव्यवच्छिन्नं करणमित्यभिप्रायेण यदाऽभावज्ञानार्थमिन्द्रियं करणं तदेन्द्रियेणासम्बद्धस्य ज्ञानं न' जन्यते इत्यभावेन सममिन्द्रियस्य सन्निकर्षो वाच्यः सर्वेन्द्रियसम्बद्धविशेषणतारूपः । तत्कल्पने गौरवमित्यर्थः२ ।
तथा च करणत्वमुभाभ्यां स्वीक्रियते । मया त्वनुपलब्धेः । करणत्वेन प्रामाण्यं "स्वीकृतमिति भाट्टाः नन्वभावग्रहेऽनुपलब्धेः प्रमाणत्वेऽन्धस्याप्यभावप्रत्यक्षं भवतु, योग्यानुपलब्धे सत्त्वादित्यत आह-योग्यानुपलब्धिरिति "तस्या सहकारित्वमुभयवादिसिद्धम् । तथा च भाट्टमते प्रामाण्यकल्पनेइन्द्रियप्रामाण्यकल्पने गौरवम् । योग्यानुपलब्धेरेव प्रामाण्यत्वम् ।
योग्यानुपलब्धिमाह-तकितेति तर्कित यद् योऽस्य प्रतियोगिनः सत्त्वं तद्विरोधितामात्र योग्यानुपलब्धिः । यथाऽत्र यदि घटः स्यात् तदोपलभ्येत । नोपलभ्यते न 'दृश्यते, तस्मान्नास्ति इति प्रमाणेनैवाभावो गृह्यते । किमर्थमभावग्रहणे चक्षुषः प्रमाणत्वम् ?
____ अत्र योग्यपदं त्वतीन्द्रियपदार्थाभावेऽति प्रसक्तिवारणार्थम् । अन्यथा स्तम्भो पिशाचो न भवतीत्यत्र पिशाचान्योन्याभावः स्तम्भनिष्ठः प्रत्यक्षः स्यात् । अत्रापि "तादृशतर्कस्य वक्तुं शक्यत्वात्। यथाऽयं स्तम्भः पिशाचो यदि स्यात् तदोपलभ्येत, नोपलभ्यते, तस्मानास्तीत्यनुपलब्धिः तिष्ठति । परं योग्यानुपलब्धिर्नास्ति । पिशाचस्यायोग्यत्वात् ।
तथा चायमतीन्द्रियप्रतियोगिकोऽभावोऽप्रत्यक्षः । एवमाकाशात्यन्ताभावादीनामतीन्द्रियस्य प्रतियोगिकत्वात् [अ] प्रत्यक्षत्वम् । ततो योग्याऽनुपलब्ध्याऽभावो गृह्यते । तथा च योग्यप्रतियोगिकोऽभावो योग्य इति ।
इयं तु तर्कितप्रतियोगिसत्त्वविरोधिताऽनुपलब्धिः मणिकार मतेऽस्ति । आचार्यमते त्वनेकप्रतियोगीत्यादिकल्पने गौरवमिति ज्ञेयम् । तथा च भाट्टेनापि अनुपलब्धिमात्रेणाभावो गृह्यते इति नोच्यते । अन्धस्याप्यभावग्राहप्रसङ्गादिति । तत्र चक्षुषोऽपि तत्र सहकारिता वाच्यैवेति लाघेवेनेन्द्रियस्य प्रमाणत्वमेव वाच्यमिति सिद्धम् ।
अत्र पूर्वपक्षयति-नन्विति तथा चाभावग्रहे इन्द्रियस्य प्रमाणत्वे सन्निकर्षकल्पने गौरवमित्यर्थः । शरीरे इति विज्ञानकारणत्वं वर्तते शरीरे, तत्र वस्तुप्राप्यप्रकाशत्वं नास्ति । यदा घटादिविषयकं ज्ञानमुत्पद्यते तदा शरीरस्य कारणत्वमन्वयव्यतिरेकाभ्यामस्ति । शरीरे व्यतिरेकेणाज्ञानानुत्पत्तेरिति । परं वस्तुप्राप्यप्रकाशत्वं नास्ति । घटादीनां समं शरीरेण समं
१. B omits न. २. B om its इत्यर्थः. ३. A कर्मत्वमुभा. ४. B omits स्वीकृतमिति भाट्टाः. ५. B omits the reading between तस्याः .........सिद्धम्. ६. It is तर्कत्वमिति in both A and B but is as above in त. भा. प्र. ७. B तर्कितं संयोगस्य प्रति. ८. A omits यदि. ९. B omits न दृश्यते. १०. B एतादृश..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org