________________
तर्कतरङ्गिणी
१४१ [१३] ॥ अर्थापत्तिविचारः ॥ अनुपपत्तिरिति दिवसे येन न भुज्यते तस्य रात्रिभोजनव्यतिरेकेण पीनत्वं न सम्भवतीत्यनुपपत्तिः । पीनत्वं रात्रि भोजनमाक्षित्यर्थः ।
ननु रात्रिभोजनमनुमेयमेवेति चेत्, न । व्यधिकरणत्वादिति । व्यधिकरत्वम्, यथा गोत्वाश्वत्वयोः । अनुमानं यथा-'देवदत्तः, रात्रौ भुङ्क्ते, दिवाऽभुञ्जानत्वे सति पीनत्वात्।' पीनत्वं च विशिष्टत्वं हेतुः शरीरे सर्वत्र वर्तते । 'रात्रिभोजनं तु वर्तते कण्ठावच्छेदेनेति वैयधिकरण्यम् । तथा पक्षधर्मताविरहमपि दर्शयति-देवदत्तेति देवदत्तस्तु जीवविशेषः, तस्य पीनत्वाभावात् पक्षधर्मता नास्तीत्यर्थः । देवदत्तस्य शरीरमिति प्रतीतेर्देवदत्तशरीरयोर्भेदादिति भावः ।
___अति अयमिति तथा च पीनत्वरात्रिभोजनयोः सामानाधिकरण्यं तिष्ठति । रात्रिभोजनं तिष्ठति कण्ठावच्छेदेन शरीरे पीनत्वमपि सर्वावयवच्छेदेनेति सामानाधिकरण्यं पक्षधर्मता चास्ति । देवदत्तपदेन लक्षणया शरीरमेव पक्षीकृतमित्यर्थः क्लृप्तेनैवेति अनुमानेनैव रात्रिभोजनज्ञानं चेत् सम्भवति तदाऽर्थापत्तेः प्रमाणान्तरं किमर्थं कल्पनीयमित्यर्थः । तथा च यद्यप्यर्थापत्तिरपि पृथक् प्रमाणं स्वीक्रियते तदा रात्रिभोजनमर्थापयामीत्यनुव्यवसाय: स्यात् । अनुमिनोमीति[न] स्यात् । प्रत्युत जायतेऽनुमिनोमीति । तथा "चार्थापत्तेप्रमाणाभाव इति दिक् ।
[इत्यर्थापत्तत्तिनिरासः ।]
[१४] अनुपलब्धिप्रमाणान्तरविचारः । अनुपलब्धेरिति तथा चाभावज्ञानं प्रत्युपलब्धेः योग्यानुपलब्धेः कारणत्वमुभयसिद्धम् । नैयायिकमीमांसकोभयसिद्धम् । तथा च योग्यानुपलब्धेरेवाभावग्राहकत्वेनैव प्रमाणत्वं स्वीकर्तव्यम्। तथा हि यदा भूतले घटो नास्तीत्यभावविषयिणी चक्षुषा प्रतीति र्जायते तदाऽभावेन समं चक्षुषः कोऽपि सन्निकर्षो विशेष्यविशेषणभावरूपो वाच्यः । तथा च सम्बन्धान्तरकल्पने गौरवम् । लाघवं च योग्यानुपलब्धेः प्रमाणत्वस्वीकारे ।
___ अत्र सम्बन्धो न कल्प्यते । यथा 'भूतले घटो नास्ति' एतादृश घटाभावज्ञानं प्रति योग्यः भवति घटः । तस्य याऽनुपलब्धिः-प्रत्यक्षज्ञानाभावः, स एव स्वतन्त्रप्रमाणम् । तस्य कारगत्वम्भावज्ञानं प्रत्युभयवादिसिद्धमेव । तथा चानुपलब्धिरेव प्रमाणम्, अभावज्ञानं फलं निर्व्यापारत्वमेव । १. B omits the reading रात्रिभोजनं तु वर्तते. २. B पक्षताविर.. ३. B omits च. ४. B तथाऽर्था.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org