________________
१४०
तर्कतरङ्गिणी वेदवाक्ये । अथ च विशेष्यदलमप्यस्ति । यथा शब्दजन्यं यद्वाक्यार्थज्ञानं घटमानयेत्यादिस्थलेऽस्मदादिवाक्यार्थज्ञानं तदजन्यत्वं वर्ततेऽस्मिन्वाक्ये । इदं च वाक्यमीश्वरज्ञानजन्यम् । तत् ईश्वरज्ञानशब्दजन्यन्वाक्यार्थज्ञानं न भवति । तस्य नित्यत्वात् । अथ च तत्र प्रमाणशब्दत्वमप्यस्ति।
अयं भावः - यस्य वाक्यस्यार्थः प्रत्यक्षजन्यप्रमितिविषयो न भवतिन, अथ च शब्दजन्यं यद्वाक्यार्थज्ञानमस्मदादिवाक्यार्थज्ञानम्, तज्जन्यं यद्वाक्यं प्रमाणवाक्यं स्वर्गकाम इत्यादिरूपमित्यर्थः । यद्यपि वेदार्थः शब्दजन्यप्रमितिविषयो भवति तथापि प्रत्यक्षजन्यप्रमितिविषयो न भवति । स एव प्रमाणशब्द वेद इत्यर्थः । सत्यन्तं लौकिकवाक्येऽतिव्याप्तिवारणार्थम्, विशेष्यदलं शब्दजन्यवाक्यार्थज्ञानाजन्यत्वे सति प्रमाणशब्दत्वं तत्र वर्तत एव । यथा घटमानयेति लौकिकवाक्ये प्रामाण्यमस्ति । घटमानयेति वाक्यस्य प्रत्यक्षजन्यप्रमितिविषयत्वात् घटदिकमपि प्रत्यक्षेण गृहीतुं "शक्यत एवेति । शब्दस्तदुपजीविप्रमाणातिरिक्तपदसम्भववारणार्थम् । तथा सति लक्षणं वेदेऽपि न गच्छति । वेदे प्रमाणजन्यप्रमित्यविषयार्थकत्वं नास्ति । प्रमाणं भवति शब्दस्तदजन्यं यज्ज्ञानं तदविषयार्थकत्वं वेदरूपवाक्यार्थे नास्ति । तत्र वाक्यजन्यज्ञानविषयत्वस्य सत्त्वात् । तदाऽसम्भव एव स्यात्, कुत्रापि लक्षणागमनात् । तथा च प्रत्यक्षप्रमाणजन्यप्रमित्यविषयार्थकत्वं वेदे पर्यवसन्नम् । वेदार्थस्य प्रत्यक्षप्रमाणजन्यप्रमित्यविषयार्थत्वात् स्वर्गादेः प्रत्यक्षजन्यज्ञानविषयत्वाभावात् । चरमप्रमाणं पदं चायोग्ये वाक्येऽतिव्याप्तिवारणार्थम् । यथा वह्निना सिञ्चेदित्ययोग्यवाक्यम् । शब्दस्तदुप-जीविप्रमाणातिरिक्तप्रमाणाजन्यप्रमित्यविषयार्थकत्वे सति शब्दज न्यवाक्यार्थज्ञानाजन्यशब्दत्वं वर्तते ! परं तस्याप्रमाणत्वात् प्रमाणातिरिक्तमात्रस्य प्रमाणत्वासम्भवादित्यसम्भववारणार्थं शब्द:-शब्दोपजीविपदम् ।
ननु शब्दोपजीवि प्रमाणे (णमि)त्यादिकमेव वाच्यं किमर्थं शब्दत्वे वर्तते पदमिति चेत्, न। तदा वेदरूपवाक्येऽव्याप्तिः । शब्दोपजीवियत्प्रमाणमनुमानं तदतिरिक्तं यत्प्रमाणं शब्दरूपं तज्जन्या या प्रमितिः तदविषयार्थत्वं वेदरूपवाक्यार्थे नास्ति । अतः शब्दपदं दत्तम् । तथा च शब्दशब्दोपजीविप्रमाणातिरिक्तत्वं शब्दस्य नास्त्येवेति नातिव्याप्ति । वेदे तु परमाप्तश्रीमहेश्वेरेणत्यस्य प्रसङ्गात् वेदलक्षणं दर्शितम् ।
॥ इति शब्दप्रमाणं व्याख्यातम् ॥
१. B reads here न भवति, तस्य नित्यत्वात् । अथ च तत्र प्रमाणं-a mere repetition without context. २. A The line is repeated. Please see note १. ३. B जन्यानुमानजननमतिविषयो. ४. B शक्य एव।. ५. A om its ज्ञान. ६. B -मितिविष. ७. B श्रीपरमाप्तम.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org