________________
.१३९
तर्कतरङ्गिणी यथा 'गङ्गायां[घोष:]' इति जहत्स्वार्था । 'काकेभ्यो दधि रक्ष्यताम् ‘इत्यजहत्स्वार्था । अत्र बाधसहकार्याद्यायामेवान्तर्भावः ।
वस्तुतस्तु सावच्छिन्नार्थसम्बन्धतावच्छेदकयद्रूपातिरिक्तावच्छेदविषयता-निरूपितविषयताशालिबोधजनकत्वनियतसमभिव्याहारविशेषविशिष्टतद्रूपवत् पदम्, तस्मिन्नर्थे निरूढिलाक्षणिकं तद्रूपावच्छिन्नं तत्स्वार्थ-सम्बन्धो निरुढिलक्षणेति निष्कर्षः ।
___ अस्यार्थ:-यथा स्वपदेन शक्यतावच्छेदकं तदवच्छिनो योऽर्थः, तत्सम्बन्धितावच्छेदकं यद्रूपं तदतिरिक्तो यो धर्मस्तेनानवच्छेद्या या विषयता, तन्निरुपिता या विषयता, तच्छाली यो बोधस्तज्जनकत्वनियतो व्याप्यो यः समव्यवहारविशेषः, तेन विशिष्टो यः शब्दरूपस्तद्रूपवत्पदं तस्मिन्नर्थे निरुढिलाक्षणिकं भवति । तद्रूपावच्छिन्नो यस्तत्स्वार्थसम्बन्धः, सा निरूढिलक्षणेति' गीयते। यथा धूमादित्यत्र पञ्चमीसमभिव्याहार विशिष्टधूमत्वेन धूमज्ञानत्वातिरिक्तानवच्छेद्या या च विषयता, तनिरूपिता या विषयिता, तच्छाली यो बोधस्तज्जनकत्वनियतत्वात् पञ्चम्या ।
अयमर्थ:-धूमपदेन धूमज्ञाने निरूढिलक्षणा । गङ्गाघटपदादौ त्वेवं समभिव्याहारः कोऽपि नास्ति । तद्विशिष्टत्वेन गङ्गापदादेः प्रतिनियततादृशबोधमात्रजनकत्वात् । तथा च निरूढिलक्षणायामितरबाधः सहकारी न भवति सामान्यामितरबाधः सहकारीति भेदः । इति मणिकाराणां मते लक्षणाद्वयमेवेति दिक्। (XI) शब्दप्रमाणलक्षणविचारः ।
अथ चेदं लक्षणं विचार्यते । शब्दस्तदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थके सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वम् । अस्यार्थो यथा शब्दोऽथ च शब्दोपजीवि यत्प्रमाणमनुमानविशेष: शब्दजन्यं यल्लिङ्गज्ञानात्मकं तदरिक्तं यत्प्रमाणं प्रत्यक्षं तज्जन्या या प्रमीतिः, तद्विषयार्थकत्वे सति, एतादृशी या प्रत्यक्षरूपा प्रमीतिस्तनिरूपिता विषयता यस्य शब्दस्यार्थे नास्ति, तत्त्वे सति शब्दजन्यं यद्वाक्यार्थज्ञानं तज्जन्यत्वे सति प्रमाकरणशब्दत्वम् । (XII) प्रसङ्गात् वेदलक्षणम् ।
____वेदत्वं-यथा स्वर्गकामो यजेतेत्यत्रेदं वाक्यं भवति वेदः । अत्रेदं लक्षणं योज्यते-यथा शब्दः शब्दोपजीवि प्रमाणम् । तदरिक्तं च यत्प्रमाणं प्रत्यक्षं, तज्जन्या या प्रमितिः एतावता शब्दानुमानातिरिक्तं प्रत्यक्षं प्रमाणं, तज्जन्याप्रत्यक्षमात्रजन्या या प्रमितिः तद्विषयार्थकत्वं स्वर्गकाम इति वाक्यस्यास्ति । तद्वाक्यार्थस्य शब्दस्य प्रत्यक्षजन्यप्रमित्यविषयकरणादिति विशेषणदलं तिष्ठति १. B omits इति. २. B विषयता. ३. B देवत्वं (?). ४. B -पजीवत्प्रमाणम् ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org